Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३८१
[तिण्हं धणं] त्रि । षष्ठी आम् । अनेन त्रि० → ती० । 'संख्याया आमो ग्रह-ण्हं' (३।१२३) आमस्थाने ण्हं इति । 'हस्वः संयोगे' (१९८४) ती० → ति० तिण्हं । धनं । 'नो णः' (१।२२८) नं० → णं० धणं ॥ [तीसु ठिअं] त्रि । सप्तमी सुप् । अनेन त्रि० → ती० तीसु । ठिअं पूर्ववत् [३।११५] ॥११८॥
द्वर्दो-बे ॥ ८।३।११९ ॥ द्विशब्दस्य तृतीयादौ दो-बे इत्यादेशौ भवतः ॥ दोहि बेहि कयं । दोहिन्तो बेहिन्तो आगओ । दोण्हं बेण्हं धणं । दोसु बेसु ठिअं॥ [द्वेर्दो-बे] द्वि षष्ठी ङस् । दो-बे प्रथमा औ।
[दोहि बेहि कयं] द्वि (२) । तृतीया भिस । 'भिसो हि-हि-हिं' (३७) भिसस्थाने हि० । अनेन द्विस्थाने प्रथमे दो-द्वितीये बे-दोहि बेहि । कयं पूर्ववत् [२।११४] ।
[दोहिन्तो बेहिन्तो आगओ] द्वि (२) । पञ्चमी भ्यस् । 'भ्यसस्त्तो-दो-दु०' (३।९) भिस्० → हिन्तो० । अनेन द्विस्थाने प्रथमे दो-द्वितीये बे-दोहिन्तो बेहिन्तो । आगओ पूर्ववत् [३।९७] ।
[दोण्हं बेण्हं धणं] द्वि (२) । षष्ठी आम् । 'संख्याया आमो ण्ह-हं' (३।१२३) आम्स्थाने ण्हं । अस्य कार्यम् - दोण्हं बेण्हं । धणं पूर्ववत् [३।११८] । [ दोसु बेसु ठिअं] द्वि (२) । सप्तमी सुप् । अनेन द्विस्थाने दो दोसु-बे बेसु । ठिअं पूर्ववत् [३।११५] ॥११९॥
दुवे-दोण्णि-बेण्णि च जस्-शसा ॥ ८।३।१२० ॥ जस्-शस्भ्यां सहितस्य द्वेः स्थाने दुवे-दोण्णि-बेण्णि इत्येते दो-बे इत्येतौ चादेशा भवन्ति । दुवे-दोण्णि-बेण्णि-दो-बे ठिआ पेच्छ वा । 'हुस्वः संयोगे' (१९८४) इति हुस्वत्वे दुण्णि-बिण्णि ॥ [दुवे-दोण्णि-बेण्णि च जस्-शसा] दुवे-दोण्णि-बेण्णि प्रथमा जस् । च प्रथमा सि । जस्-शस् तृतीया टा ।
[दुवे-दोण्णि-बेण्णि-दो-बे ठिआ पेच्छ वा । दुण्णि-बिण्णि] द्वि (५) । प्रथमा जस्-द्वितीया शस् वा । अनेन द्विस्थाने जस-शस्भ्यां सह दुवे-दोण्णि-बेण्णि -दो-बे आदेशाः । ठिअ पूर्ववत् [३।११५] प्रथमा सि । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्य०' (१२११) स्लुक् ठिआ । पेच्छ पूर्ववत् [३।२८] । दुण्णि-बिण्णि ॥१२०॥
स्तिण्णिः ॥ ८३।१२१ ॥ जस्-शस्भ्यां सहितस्य त्रेः स्थाने तिण्णि इत्यादेशो भवति ॥ तिण्णि ठिआ पेच्छ वा ॥ [त्रेस्तिण्णिः ] त्रि षष्ठी ङस् । तिण्णि प्रथमा सि ।
[तिण्णि ठिआ पेच्छ वा] त्रि । प्रथमा जस्-द्वितीया शस् वा । अनेन त्रिस्थाने जस्-शस्भ्यां सह तिण्णि आदेशः । ठिआ पूर्ववत् [३।१२०] । पेच्छ पूर्ववत् [३।२८] ॥१२॥
चतुरश्चत्तारो-चउरो-चत्तारि ॥ ८॥३।१२२ ॥ चतुर्शब्दस्य जस्-शस्भ्यां सहितस्य चत्तारो-चउरो-चत्तारि इत्येते आदेशा भवन्ति ॥ चत्तारो-चउरो-चत्तारि चिट्ठन्ति पेच्छ वा ॥ [चतुरश्चत्तारो-चउरो-चत्तारि] चतुर षष्ठी ङस् । चत्तारो-चउरो-चत्तारि प्रथमा जस् ।
Loading... Page Navigation 1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442