SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३८१ [तिण्हं धणं] त्रि । षष्ठी आम् । अनेन त्रि० → ती० । 'संख्याया आमो ग्रह-ण्हं' (३।१२३) आमस्थाने ण्हं इति । 'हस्वः संयोगे' (१९८४) ती० → ति० तिण्हं । धनं । 'नो णः' (१।२२८) नं० → णं० धणं ॥ [तीसु ठिअं] त्रि । सप्तमी सुप् । अनेन त्रि० → ती० तीसु । ठिअं पूर्ववत् [३।११५] ॥११८॥ द्वर्दो-बे ॥ ८।३।११९ ॥ द्विशब्दस्य तृतीयादौ दो-बे इत्यादेशौ भवतः ॥ दोहि बेहि कयं । दोहिन्तो बेहिन्तो आगओ । दोण्हं बेण्हं धणं । दोसु बेसु ठिअं॥ [द्वेर्दो-बे] द्वि षष्ठी ङस् । दो-बे प्रथमा औ। [दोहि बेहि कयं] द्वि (२) । तृतीया भिस । 'भिसो हि-हि-हिं' (३७) भिसस्थाने हि० । अनेन द्विस्थाने प्रथमे दो-द्वितीये बे-दोहि बेहि । कयं पूर्ववत् [२।११४] । [दोहिन्तो बेहिन्तो आगओ] द्वि (२) । पञ्चमी भ्यस् । 'भ्यसस्त्तो-दो-दु०' (३।९) भिस्० → हिन्तो० । अनेन द्विस्थाने प्रथमे दो-द्वितीये बे-दोहिन्तो बेहिन्तो । आगओ पूर्ववत् [३।९७] । [दोण्हं बेण्हं धणं] द्वि (२) । षष्ठी आम् । 'संख्याया आमो ण्ह-हं' (३।१२३) आम्स्थाने ण्हं । अस्य कार्यम् - दोण्हं बेण्हं । धणं पूर्ववत् [३।११८] । [ दोसु बेसु ठिअं] द्वि (२) । सप्तमी सुप् । अनेन द्विस्थाने दो दोसु-बे बेसु । ठिअं पूर्ववत् [३।११५] ॥११९॥ दुवे-दोण्णि-बेण्णि च जस्-शसा ॥ ८।३।१२० ॥ जस्-शस्भ्यां सहितस्य द्वेः स्थाने दुवे-दोण्णि-बेण्णि इत्येते दो-बे इत्येतौ चादेशा भवन्ति । दुवे-दोण्णि-बेण्णि-दो-बे ठिआ पेच्छ वा । 'हुस्वः संयोगे' (१९८४) इति हुस्वत्वे दुण्णि-बिण्णि ॥ [दुवे-दोण्णि-बेण्णि च जस्-शसा] दुवे-दोण्णि-बेण्णि प्रथमा जस् । च प्रथमा सि । जस्-शस् तृतीया टा । [दुवे-दोण्णि-बेण्णि-दो-बे ठिआ पेच्छ वा । दुण्णि-बिण्णि] द्वि (५) । प्रथमा जस्-द्वितीया शस् वा । अनेन द्विस्थाने जस-शस्भ्यां सह दुवे-दोण्णि-बेण्णि -दो-बे आदेशाः । ठिअ पूर्ववत् [३।११५] प्रथमा सि । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्य०' (१२११) स्लुक् ठिआ । पेच्छ पूर्ववत् [३।२८] । दुण्णि-बिण्णि ॥१२०॥ स्तिण्णिः ॥ ८३।१२१ ॥ जस्-शस्भ्यां सहितस्य त्रेः स्थाने तिण्णि इत्यादेशो भवति ॥ तिण्णि ठिआ पेच्छ वा ॥ [त्रेस्तिण्णिः ] त्रि षष्ठी ङस् । तिण्णि प्रथमा सि । [तिण्णि ठिआ पेच्छ वा] त्रि । प्रथमा जस्-द्वितीया शस् वा । अनेन त्रिस्थाने जस्-शस्भ्यां सह तिण्णि आदेशः । ठिआ पूर्ववत् [३।१२०] । पेच्छ पूर्ववत् [३।२८] ॥१२॥ चतुरश्चत्तारो-चउरो-चत्तारि ॥ ८॥३।१२२ ॥ चतुर्शब्दस्य जस्-शस्भ्यां सहितस्य चत्तारो-चउरो-चत्तारि इत्येते आदेशा भवन्ति ॥ चत्तारो-चउरो-चत्तारि चिट्ठन्ति पेच्छ वा ॥ [चतुरश्चत्तारो-चउरो-चत्तारि] चतुर षष्ठी ङस् । चत्तारो-चउरो-चत्तारि प्रथमा जस् ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy