________________
३८०
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[णे-णो-मज्झ-अम्ह-अम्हं-अम्हे-अम्हो-अम्हाण-ममाण-महाण-मज्झाण धणं ] धणं पूर्ववत् [३।५५] ॥११४।।
मि-मइ-ममाइ-मए-मे डिना ॥८॥३।११५ ॥ अस्मदो ङिना सहितस्य एते पञ्चादेशा भवन्ति ॥ मि-मइ-ममाइ-मए-मे ठिअं ॥ [मि-मइ-ममाइ-मए-मे डिना] मि-मइ-ममाइ-मए-मे प्रथमा जस् । ङि तृतीया टा ।
[मि-मइ-ममाइ-मए-मे ठिअं] स्था । 'स्थष्ठा०' (४।१६) स्था० → ठा० । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'स्वरादनतो वा' (४।२४०) अत् । 'ते' (३।१५६) अत्० → इ० । 'लुक' (१।१०) आलोपः । 'लोकात्' (१।१।३) ठित० । 'क-ग-च-ज०' (१।१७७) तुलुक् । प्रथमा सि । 'क्लीबे स्वरान्म् सेः' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः ठिअं ॥११५॥
__ अम्ह-मम-मह-मज्झा डझे ॥ ८।३।११६ ॥ अस्मदो ङौ परे एते चत्वार आदेशा भवन्ति ॥ अम्हम्मि-ममम्मि-महम्मि-मज्झम्मि ठिअं॥
[अम्ह-मम-मह-मज्झा ] अम्ह-मम-मह-मज्झ प्रथमा जस् । ङि सप्तमी ङि । - [अम्हम्मि-ममम्मि-महम्मि-मज्झम्मि ठिअं] अस्मद् । सप्तमी ङि। अनेन अम्हादि आदेशे कृते ' स्सि-म्मिस्थाः' (३.५९) ङि० →म्मि० अम्हम्मि-ममम्मि-महम्मि-मज्झम्मि । ठिअं पूर्ववत् [३।११५] ॥११६॥ .
सुपि ॥ ८।३।११७ ॥ अस्मदः सुपि परे अम्हादयश्चत्वार आदेशा भवन्ति ।
अम्हेसु-ममेसु-महेसु-मज्झेसु ॥ एत्वविकल्पमते तु अम्हसु-ममसु-महसु-मज्झसु ॥ अम्हस्यात्वमपीच्छन्त्यन्ये - अम्हासु ॥
[सुपि] सुप् सप्तमी ङि ।
[अम्हेसु-ममेसु-महेसु-मज्झेसु] अस्मद् । सप्तमी सुप् । अनेन अम्हादि आदेशे कृते 'भिस्-भ्यस्-सुपि' (३।१५) एत्त्वं-अम्हेसु-ममेसु-महेसु-मज्झेसु ॥११७।।
त्रेस्ती तृतीयादौ ॥ ८१३।११८ ॥ त्रेः स्थाने ती इत्यादेशो भवति, तृतीयादौ ॥ तीहिं कयं । तीहिन्तो आगओ। तिण्हं धणं । तीसु ठिअं॥ [स्ती तृतीयादौ ] त्रि षष्ठी ङस् । ती प्रथमा सि । तृतीयादि सप्तमी ङि।
[तीहिं कयं] त्रि । तृतीया भिस् । 'भिसो हि-हि-हिं' (३७) भिस० → हिं० । अनेन त्रिस्थाने ती-तीहिं । कयं पूर्ववत् [२।११४] ।
[तीहिन्तो आगओ] त्रि । पञ्चमी भ्यस् । 'भ्यसस्तो-दो-दु-हि-हिन्तो-सुन्तो' (३९) भ्यस्० → हिन्तो० । अनेन त्रिस्थाने ती-तीहिन्तो । आगओ पूर्ववत् [३।९७] ।
१. H. J. M. परत ।