________________
३८२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[चत्तारो-चउरो-चत्तारि चिठ्ठन्ति पेच्छ वा] चतुर् । प्रथमा जस् - द्वितीया शस् वा । अनेन जस्-शस्भ्यां सह चत्तारो-चउरो-चत्तारि आदेशाः । स्था । वर्त० अन्ति । 'स्थष्ठा-थक्क-चिट्ठ०' (४।१६) स्था० → चिट्ठ इति । 'बहुष्वाद्यस्य न्ति-न्ते-इरे' (३।१४२) अन्ति० →न्ति० । 'व्यञ्जना०' (४।२३९) अत् । 'लुक् (१।१०) अलुक् चिट्ठन्ति । पेच्छ वा पूर्ववत् [३।२८] ॥१२२॥
संख्याया आमो ण्ह-ण्हं ॥ ८।३।१२३ ॥ संख्याशब्दात् परस्य आमो ण्ह-ण्हं इत्यादेशौ भवतः ॥
दोण्ह । तिण्ह । चउण्ह ।पञ्चण्ह । छह । सत्तण्ह । अट्ठण्ह । एवं-दोण्हं । तिण्हं । चउण्हं । पञ्चण्हं । छण्हं । सत्तण्डं । अट्ठण्हं । नवण्हं । दसण्हं । पण्णरसण्हं दिवसाणं । अट्ठारसण्हं समणसाहस्सीणं । कतीनाम् → कइण्हं ॥ बहुलाधिकाराद् विंशत्यादेर्न भवति ॥
[संख्याया आमो ण्ह-हं] संख्या षष्ठी ङस् । आम् षष्ठी ङस् । छह-छहं प्रथमा औ। [दोण्ह] द्वि । षष्ठी आम् । अनेन आम्० → ण्ह० । 'द्वेर्दो-बे' (३।११९) द्वि० → दो० दोण्ह ।
[तिण्ह ] त्रि । षष्ठी आम् । अनेन आम्० → ण्ह० । 'त्रेस्ती तृतीयादौ' (३।११८) त्रि० → ती० । 'हुस्वः संयोगे' (१९८४) ती० → ति० तिण्ह ।
[चउण्ह] चतुर् । षष्ठी आम् । 'अन्त्य०' (१।१११) लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन आम्० → ण्ह० चउण्ह ।
[पञ्चण्ह] पञ्चन् । षष्ठी आम् । 'अन्त्य०' (१।११) ग्लुक् । अनेन आम्० → ण्ह० पञ्चण्ह ।
[छण्ह] षट् । षष्ठी आम् । 'अन्त्यव्यः' (१।११) लुक् । 'षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छ:' (१।२६५) ष० → छ । अनेन आम्० → ण्ह० छह ।
[सत्तण्ह] सप्तन् । षष्ठी आम् । 'अन्त्यव्यः' (१।११) न्लुक् । 'क-ग-ट-ड०' (२७७) प्लुक् । 'अनादौ०' (२।८९) तस्य द्वित्वं - त० → त० । अनेन आम्० → ण्ह० सत्तण्ह ।
[अट्ठण्ह] अष्टन् । षष्ठी आम् । 'अन्त्यव्य०' (१।११) न्लुक् । 'ष्टस्याऽनुष्ट्रेष्टासं०' (२।३४) ष्ट० → ठ० । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२२९०) पूर्वठस्य टः । अनेन आम्० → ण्ह० अट्ठण्ह ।
[दोहं] द्वि । षष्ठी आम् । 'द्वेर्दो-बे' (३।११९) द्वि० → दो० । अनेन आम्० → ण्हं० दोण्हं ।
[तिण्हं] त्रि । षष्ठी आम् । 'त्रेस्ती तृतीयादौ' (३।११८) त्रि० → ती० । अनेन आम्० → ण्हं० । 'हुस्वः संयोगे' (१९८४) ती० → ति० तिण्हं ।
[नवण्हं] नवन् । षष्ठी आम् । 'अन्त्यव्य०' (१२११) नलुक । अनेन आम्० → हं० नवण्हं ।
[दसण्हं] दशन् । षष्ठी आम् । 'अन्त्यव्यः' (१।११) न्लुक् । 'श-षोः सः' (१।२६०) श० → स० । अनेन आम्० → ण्हं दसण्हं ।
[पण्णरसण्हं दिवसाणं] पञ्चदशन् । षष्ठी आम् । 'पञ्चाशत्-पञ्चदश-दत्ते' (२।४३) ञ्च० → ण । 'अनादौ०' (२।८९) णस्य द्वित्वम् । 'संख्या-गद्गदे रः' (१।२१९) दस्य रः । 'श-षोः सः' (१।२६०) श० → स० । 'अन्त्यव्य०' (१।११) नलुक् । अनेन आम्० → ण्हं पण्णरसण्हं ।