Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 389
________________ ३७६ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [ तुम्मि-तुवम्मि-तुमम्मि-तुहम्मि-तुब्भम्मि] युष्मद् । सप्तमी ङि । अनेन तु-तुव इत्यादेशे कृते 'उस्सि-म्मित्थाः' (३५९) ङि० → स्सि-म्मि-स्थतुस्सि-तुम्मि-तुत्थ इत्यादि ॥१०२।। सुपि ॥ ८३।१०३ ॥ युष्मदः सुपि परत: तु-तुव-तुम-तुह-तुब्भा भवन्ति ॥ तुसु-तुवेसु-तुमेसु-तुहेसु-तुब्भेसु ॥ 'ब्भो म्ह-ज्झौ वा' (३।१०४) इति वचनात् तुम्हेसु-तुज्झेसु ॥ केचित् सुप्येत्वविकल्पमिच्छन्ति, तन्मते तुवसु-तुमसु-तुहसु-तुब्भसु-तुम्हसु-तुज्झसु ॥ तुब्भस्यात्वमपीच्छत्यन्यः । तुब्भासु-तुम्हासुतुज्झासु ॥ [सुपि] सुप् सप्तमी ङि । ब्भो म्ह-ज्झौ वा ॥८॥३।१०४ ॥ युष्मदादेशेषु यो द्विरुक्तो भस्तस्य म्ह-ज्झ इत्येतावादेशौ वा भवतः ॥ पक्षे-स एवास्ते । तथैव चोदाहृतम् ॥ [ब्मो म्ह-ज्झौ वा] ब्भ षष्ठी ङस् । म्ह-ज्झ प्रथमा औ । वा प्रथमा सि ॥१०४॥ अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना ॥ ८।३।१०५॥ अस्मदः सिना सह एते षडादेशा भवन्ति ॥ 'अज्ज म्मि हासिआ मामि ! तेण । उन्नम न अम्मि कुविआ । अम्हि करेमि । जेण हं विद्धा । किं पम्हटु म्हि अहं । अहयं कयप्पणामो ॥ [अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना] अस्मद् षष्ठी ङस् । म्मि-अम्मि-अम्हि-हं-अहं-अहयं प्रथमा सि । सि तृतीया टा। [अज्ज म्मि हासिआ मामि ! तेण] अद्य । प्रथमा सि । 'द्य-यय-यां जः' (२०२४) द्य० → ज० । 'अनादौ०' (२१८९) जस्य द्वित्वम् । 'अव्ययस्य' (३।२।७) सिलुप् अज्ज । अस्मद् । प्रथमा सि । अनेन सिना सह अस्मद्स्थाने म्मि० । 'हसे हसने' (५४५) हस् । हसन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । हास्यते स्म । क्तप्र० । 'लुगावी क्त-भावकर्मसु' (३।१५२) णिग्लुक् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हास । 'क्ते' (३।१५६) स० → सि० । 'आत्' (२।४।१८) आप्प्र० → आ । 'क-ग-च-ज०' (१२१७७) त्लुक् । 'समानानां०' (१।२।१) दीर्घः हासिआ। मामीति सख्याः सम्बोधने मामि !। तद् । तृतीया टा । 'अन्त्यव्य०' (१।११) द्लुक् । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्त्वं - त० → ते. तेण । मामीति हे सखि ! तेन अद्याऽहं हासितास्मीत्यर्थः ॥ १. अज्ज म्मि हासिआ मामि ! तेण पाएसु तह पडन्तेण । तीए वि जलन्ति दीववत्तिमब्भुण्णअन्तीए ॥ [गा० स० - वर्ण्यविषये - ३६४] उनम न अम्मि कुविआ अवऊहसु कि मुहा पसाएसि । तुह मन्नुसमुप्पन्नेण मज्झ माणेण वि न कज्जं ॥ [अनु० अङ्क:- ६६] उन्नम नाऽस्मि कुपिता अवगृहस्व किं मुधा प्रसादयसि ? | तव मन्युसमुत्पन्नेन मम मानेनाऽपि न कार्यम् ॥

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442