________________
३७६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[ तुम्मि-तुवम्मि-तुमम्मि-तुहम्मि-तुब्भम्मि] युष्मद् । सप्तमी ङि । अनेन तु-तुव इत्यादेशे कृते 'उस्सि-म्मित्थाः' (३५९) ङि० → स्सि-म्मि-स्थतुस्सि-तुम्मि-तुत्थ इत्यादि ॥१०२।।
सुपि ॥ ८३।१०३ ॥ युष्मदः सुपि परत: तु-तुव-तुम-तुह-तुब्भा भवन्ति ॥
तुसु-तुवेसु-तुमेसु-तुहेसु-तुब्भेसु ॥ 'ब्भो म्ह-ज्झौ वा' (३।१०४) इति वचनात् तुम्हेसु-तुज्झेसु ॥ केचित् सुप्येत्वविकल्पमिच्छन्ति, तन्मते तुवसु-तुमसु-तुहसु-तुब्भसु-तुम्हसु-तुज्झसु ॥ तुब्भस्यात्वमपीच्छत्यन्यः । तुब्भासु-तुम्हासुतुज्झासु ॥ [सुपि] सुप् सप्तमी ङि ।
ब्भो म्ह-ज्झौ वा ॥८॥३।१०४ ॥ युष्मदादेशेषु यो द्विरुक्तो भस्तस्य म्ह-ज्झ इत्येतावादेशौ वा भवतः ॥ पक्षे-स एवास्ते । तथैव चोदाहृतम् ॥ [ब्मो म्ह-ज्झौ वा] ब्भ षष्ठी ङस् । म्ह-ज्झ प्रथमा औ । वा प्रथमा सि ॥१०४॥
अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना ॥ ८।३।१०५॥ अस्मदः सिना सह एते षडादेशा भवन्ति ॥
'अज्ज म्मि हासिआ मामि ! तेण । उन्नम न अम्मि कुविआ । अम्हि करेमि । जेण हं विद्धा । किं पम्हटु म्हि अहं । अहयं कयप्पणामो ॥
[अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना] अस्मद् षष्ठी ङस् । म्मि-अम्मि-अम्हि-हं-अहं-अहयं प्रथमा सि । सि तृतीया टा।
[अज्ज म्मि हासिआ मामि ! तेण] अद्य । प्रथमा सि । 'द्य-यय-यां जः' (२०२४) द्य० → ज० । 'अनादौ०' (२१८९) जस्य द्वित्वम् । 'अव्ययस्य' (३।२।७) सिलुप् अज्ज ।
अस्मद् । प्रथमा सि । अनेन सिना सह अस्मद्स्थाने म्मि० । 'हसे हसने' (५४५) हस् । हसन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । हास्यते स्म । क्तप्र० । 'लुगावी क्त-भावकर्मसु' (३।१५२) णिग्लुक् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) हास । 'क्ते' (३।१५६) स० → सि० । 'आत्' (२।४।१८) आप्प्र० → आ । 'क-ग-च-ज०' (१२१७७) त्लुक् । 'समानानां०' (१।२।१) दीर्घः हासिआ।
मामीति सख्याः सम्बोधने मामि !। तद् । तृतीया टा । 'अन्त्यव्य०' (१।११) द्लुक् । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्त्वं - त० → ते. तेण । मामीति हे सखि ! तेन अद्याऽहं हासितास्मीत्यर्थः ॥
१. अज्ज म्मि हासिआ मामि ! तेण पाएसु तह पडन्तेण । तीए वि जलन्ति दीववत्तिमब्भुण्णअन्तीए ॥
[गा० स० - वर्ण्यविषये - ३६४] उनम न अम्मि कुविआ अवऊहसु कि मुहा पसाएसि । तुह मन्नुसमुप्पन्नेण मज्झ माणेण वि न कज्जं ॥ [अनु० अङ्क:- ६६] उन्नम नाऽस्मि कुपिता अवगृहस्व किं मुधा प्रसादयसि ? | तव मन्युसमुत्पन्नेन मम मानेनाऽपि न कार्यम् ॥