SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३७७ [उन्नम न अम्मि कुविआ] 'णमं प्रवत्वे' (३८८) णम् । 'पाठे धात्वादेो नः' (२।३।९७) नम्, उत्पूर्व० । पञ्चमी हि । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'दु-सु-मु०' (३।१७३) हिस्थाने सु० । 'अत इज्जस्विज्जहीज्जे-लुको वा' (३।१७५) सुलुक् उन्नम | न । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् न । अस्मद् । प्रथमा सि । अनेन सिना सह अस्मद्स्थाने अम्मि । कुपिता । प्रथमा सि । 'पो वः' (१२२३१) पि० → वि० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अन्त्यव्य०' (१।११) स्लुक् कुविआ । त्वमुन्नम-उच्वैर्भव नाहं कुपितास्मीत्यर्थः ।। [अम्हि करेमि] अस्मद् । प्रथमा सि । अनेन सिना सह अस्मद्स्थाने अम्हि० । 'डुकृग् करणे' (८८८) कृ। वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिव्० → मि० । 'ऋवर्ण०' (४।२३४) कृ० → कर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१२११३) कर० । 'वर्तमाना-पञ्चमी०' (३।१५८) र० → रे० करेमि ॥ 'जम्मंतराइ सत्त वि चलणे जीएण मयण ! अग्घिस्सं । जइ तं पि तेण बाणेण विद्धसे जेण हं विद्धा ॥१॥ अस्यार्थः - काचित् कामात कामिनी काममुवाच, हे मदन ! तव चरणान् अहं सप्त जन्मान्तराणि यावत् जीवितेन अर्चिष्यामि, यदि त्वमपि तेन बाणेन विध्यसे, तेन केन ? येनाहं विद्धति गाथार्थः ॥ [जेण हं विद्धा] यद् । तृतीया टा । 'अन्त्यव्यञ्जनस्य' (१।११) लुक् । 'आदेर्यो जः' (१।२४५) य० → ज० । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३.१४) एत्त्वं - ज० → जे० जेण । अस्मद् । प्रथमा सि । अनेन सिना सह अस्मद्स्थाने हैं। [किं पम्हुट्ठ म्हि अहं] विस्मृताऽस्मि । 'क्तेनाप्फुण्णादयः' (४।२५८) विस्मृतस्थाने पम्हुट्ठ इति । 'असक् भुवि' (११०२) अस् । वर्त्त० मिव् । 'तृतीयस्य मिः' (३६१४१) मिव्० → मि० । 'मि-मो-मैम्हि०' (३।१४७) असस्थाने मिना सह म्हि० । पम्हुट्ट म्हि । अस्मद् । प्रथमा सि । अनेन अस्मद्स्थाने सिना सह अहं । किमहं विस्मृतास्मीत्यर्थः ॥ [ अहयं कयप्पणामो] अस्मद् । प्रथमा सि । अनेन अस्मद्स्थाने सिना सह अहयं । १. जम्मंतरे वि चलणे जीएण खु मअण ! तुज्झ अच्चिस्सं । जइ तं पि तेण बाणेण विज्झसे जेण हं विद्धा ॥ [शृ० प्र० - १५/३५३ । गा० स० - ५/४१] जन्मान्तरेऽपि चरणौ जीवेन खलु मदन ! तव अर्चिष्यामि । यदि तमपि तेन बाणेन विध्यसि येन अहं विद्धा ॥ १. पाठां० - जम्मंतराइ वीसं चलणे जीएण मयण ! अग्घिस्सं । [गा० को० - ४।२१] २. किं पम्हट्ट म्हि अहं तुह चलणुप्पण्णवतिवहआपडिउण्णं । खणकालाणलखविअं धरणिअलुद्धरणविलुलिअं अप्पाणं ॥ [से० ब० - ६।१२] किं प्रस्मृतवानस्म्यहं तव चरणोत्पन्नत्रिपथगाप्रतिपूर्णम् । क्षय(ण)कालानलक्षपितं धरणितलोद्धरणविलुलितमात्मानम् ॥ ३. सीसत्तेणोवगया संपयमिंदग्गिभूइणो जस्स । अहयं कयप्पणामो स महाभागोऽभिगमणिज्जो ॥ [अनु० अङ्क:- ६६] शिष्यत्वेनोपगता: साम्प्रतमिन्द्राग्निभूती यस्य । अहं कृतप्रणाम: स महाभाग्योऽभिगमनीयः ॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy