Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 381
________________ ३६८ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ एतद् । प्रथमा सि । अनेन वा सिना सह एतद्स्थाने एस इति एस । मही । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् मही। [एस सहाओ च्चिअ ससहरस्स] एस पूर्ववत् । स्वभाव । प्रथमा सि । 'सर्वत्र ल-व०' (२७९) वूलुक् । 'खघ-थ०' (१।१८७) भा० → हा० । 'क-ग-च-ज०' (१।१७७) व्लुक् । 'अत: से?:' (३२) सि० → डो० → ओ० सहाओ। एव । 'णइ चेअ चिअ च्च अवधारणे' (२।१८४) एवस्थाने चिअ इति । 'सेवादौ वा' (२।९९) द्वित्वं च्चिअ । शशधर । षष्ठी ङस् । 'श-षोः सः' (१।२६०) शस्य स० - द्वितीयस्यापि शस्य स० । 'ख-घ-थ०' (१।१८७) धo→ ह० । 'ङसः स्सः' (३।१०) ङस्० → स्स० ससहरस्स । [एस सिरं] एस पूर्ववत् । शिरस् । 'श-षोः सः' (११२६०) शस्य सः । 'अन्त्यव्य०' (११११) स्लुक् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (११२३) अनुस्वारः सिरं । [इणं ] एतद् । प्रथमा सि । अनेन सिना सह एतद्स्थाने इणं इणं । [इणमो] एतद् । प्रथमा सि । अनेन सिना सह एतद्स्थाने इणमो इणमो । पक्षे [एअं] एतद् । प्रथमा सि । 'अन्त्यव्यः' (१।११) द्लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'क्लीबे स्वरान्म् से:' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः एअं । [एसा ] एतद् । प्रथमा सि । 'अन्त्यव्य०' (१।११) लुक् । 'तदश्च तः सोऽक्लीबे' (३८६) त० → स० । 'आत्' (२।४।११८) आप्प्र० → आ । 'अन्त्यव्य०' (१।११) स्लुक् एसा । [एसो] एतद् । प्रथमा सि । 'अन्त्यः ' (१।११) लुक् । 'तदश्च तः सोऽक्लीबे' (३८६) त० → स० । 'अतः से?:' (३।२) सि० → डो० → ओ० एसो ॥८५।। तदश्च तः सोऽक्लीबे ॥८॥३८६ ॥ तद एतदश्च तकारस्य सौ परे अक्लीबे सो भवति ॥ सो पुरिसो। सा महिला । एसो पिओ। एसा मुद्धा ॥ सावित्येव - ते एए धन्ना । 'ताओ(ता) एआओ महिलाओ॥ अक्लीब इति किम् ? तं एअंधणं ॥ [तदश्च तः सोऽक्लीबे] तद् षष्ठी ङस् । च प्रथमा सि । त् षष्ठी ङस् । स प्रथमा सि । अक्लीब सप्तमी ङि । [सो पुरिसो] तद् । प्रथमा सि । 'अन्त्यव्य०' (१२११) दलुक । अनेन त०→ स० । 'अत: से?:' (३२) सि० → डो० → ओ० सो। १. एस सहाओ च्चिअ ससहरस्स खीणस्स वंकिमा जं से । रिद्धीइं पंजला हुंति सुवुरिसा न उण विवयासु ॥ [अनु० अङ्कः-६६] एष स्वभावश्चैव शशधरस्य क्षीणस्य वक्रिमा यत् तस्य । ऋद्ध्या प्राञ्जला भवन्ति सुपुरुषा न पुनर्विपत्सु ॥ २. ताओ एआओ महिलाओ माणुनय(यं) देइ मं अवमाणं । अणुसरिसं ति भणंती आहंतूण पडियथिरत्तणुच्छंगं ।। [अनु० अङ्कः-६६] ता एता महिला मानोन्नतं ददति मामपमानम् । अनुसदृशमिति भणन्त्यः आहत्वा पतितस्थिरत्वोत्सङ्गम् (?) ॥ ३. सर्वमुद्रितेषु वणं ।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442