Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 379
________________ ३६६ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [एआण] एतद् । षष्ठी आम् । 'अन्त्यव्य०' (१।११) लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'जस्-शस्ङसि-त्तो०' (३।१२) दीर्घः- अ० → आ० । 'टा-आमोर्णः' (३६) आम्० → ण० एआण । केचित् इदम्-तद्शब्दयोराम्योगेऽपि से आदेशमिच्छति । यथासंख्यं नाऽङ्गीकरोतीत्यर्थः ॥८१॥ वैतदो डसेस्तो-त्ताहे ॥ ८।३।८२ ॥ एतदः परस्य ङसेः स्थाने त्तो-ताहे इत्येतावादेशौ वा भवतः ॥ एत्तो । एत्ताहे । पक्षे-एआओ । एआउ । एआहि । एआहिन्तो । एआ ॥ [वैतदो डसेस्तो-त्ताहे] वा प्रथमा सि । एतद् पञ्चमी ङसि । ङसि षष्ठी ङस् । त्तो-त्ताहे प्रथमा औ। [एत्तो] एतद् । पञ्चमी सि । 'अन्त्यव्य०' (१।११) लुक् । अनेन वा ङसिस्थाने त्तो० । 'त्थे च तस्य लुक्' (३।८३) तस्य लुक् एत्तो। [एत्ताहे] एतद् । पञ्चमी ङसि । 'अन्त्यव्यः' (१।११) द्लुक् । अनेन वा ङसिस्थाने ताहे । 'त्थे च तस्य लुक् (३।८३) तस्य लुक् एत्ताहे । [एआओ] एतद् । पञ्चमी ङसि । 'ङसेस्त्तो -दो-दु-हि-हिन्तो-लुकः' (३८) ङसि० → दो० । 'क-ग-च-ज०' (१२१७७) त-दयोर्लुक् । 'जस्-शस्-ङसि-त्तो०' (३।१२) दीर्घः - अ० → आ० एआओ। [एआउ] एतद् । पञ्चमी ङसि । 'ङसेस्तो -दो-दु०' (३८) ङसि० → दु० । 'क-ग-च-ज०' (१।१७७) तदयोर्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - अ० → आ० एआउ । [एआहि] एतद् । पञ्चमी ङसि । 'ङसेस्तो -दो-दु-हि०' (३८) ङसि० → हि० । 'क-ग-च-ज०' (११७७) तदयोर्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः- अ० → आ० एआहि। [एआहिन्तो] एतद् । पञ्चमी ङसि । 'ङसेस्त्तो-दो-दु-हि-हिन्तो०' (३८) ङसि० → हिन्तो० । 'क-ग-च-ज०' (१।१७७) त-दयोर्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः- अ० → आ० एआहिन्तो। [एआ] एतद् । पञ्चमी ङसि । 'ङसेस्तो -दो-दु-हि-हिन्तो-लुकः' (३१८) ङसिलुक् । 'क-ग-च-ज०' (१११७७) त-दयोर्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - अ० → आ० एआ ॥८२।। त्थे च तस्य लुक् ॥ ८॥३८३ ॥ एतदस्त्थे परे चकारात् त्तो-ताहे इत्येतयोश्च परयोस्तस्य लुग भवति ॥ एत्थ । एत्तो । एत्ताहे ॥ [त्थे च तस्य लुक्] त्थ सप्तमी ङि । च प्रथमा सि । त षष्ठी ङस् । लुक् प्रथमा सि । [एत्थ ] एतद् । सप्तमी ङि । ' स्सि-म्मि-त्थाः' (३५९) ङि० → स्थ० । 'अन्त्यव्यः' (१।११) लुक् । अनेन तस्य लुक् एत्थ । __[एत्तो] एतद् । पञ्चमी ङसि । 'अन्त्यव्य०' (१।११) द्लुक् । 'वैतदो ङसेस्तो-त्ताहे' (३।८२) ङसि० → त्तो० । अनेन तस्य लुक् एत्तो। [एत्ताहे] एतद् । पञ्चमी ङसि । 'अन्त्यव्य०' (१२११) दलुक् । 'वैतदो ङसेस्तो-त्ताह (३८२) ङसि० → ताहे। अनेन तस्य लुक् एत्ताहे ॥८३।।

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442