Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
३६४
व्युत्पत्तिदीपिकाभिधान- दुण्ठिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[ अमेणम् ] अम् तृतीया टा । इणम् प्रथमा सि ।
[ इणं पेच्छ ] इदम् । द्वितीया अम् । अनेन वा अम्सहितस्य इदम्० → इणं इणं । पेच्छ पूर्ववत् [३।२८] । पक्षे -
[ इमं ] इदम् । द्वितीया अम् । 'इदम इम:' ( ३।७२ ) इदम् ० इम० । 'अमोऽस्य' (३५) अलुक् अम्०म्० । 'मोऽनु०' (१।२३) अनुस्वारः इमं ॥७८॥
क्लीबे स्यमेदमिणो च ॥ ८।३।७९ ॥
नपुंसकलिङ्गे वर्तमानस्येदमः स्यम्भ्यां सहितस्य इदम् - इणमो इणम् च नित्यमादेशा भवन्ति ॥
इदं इणमो इणं धणं चिट्ठइ पेच्छ वा ॥
I
[ क्लीबे स्यमेदमिणमो च] क्लीब सप्तमी ङि । स्यम् तृतीया टा । इदम् इणमो प्रथमा औ । 'अव्ययस्य' (३।२७) औलुप् । च प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् ।
[ इदं इणमो इणं धणं चिट्ठइ पेच्छ वा ] इदम् । प्रथमा सि । अनेन सिसहितस्य इदम् ० → इदं अम् । अनेन अम्सहितस्य इदम् ० इमो० । इदम् । द्वितीया अम् । अनेन अम्सहितस्य इदम्० 'नो णः' (१।२२८) नं० नं० धणं । चिह्न पूर्ववत् [१।२३६ ] । पेच्छ पूर्ववत् [३।२८] ॥७९॥
किमः किं ॥ ८|३|८० ॥
किम: क्लीबे वर्तमानस्य स्यम्भ्यां सह किं भवति ॥ किं कुलं तुह । 'किं किं ते पडिहाइ ॥
[ किमः किं ] किम् षष्ठी ङस् । किम् प्रथमा सि ।
[ किं कुलं तुह ] किम् । प्रथमा सि । अनेन सिसहितस्य किम्शब्दस्य किं करणं कार्यान्तरबाधनार्थम्, तेन 'किम: कस्त्र-तसोश्च' (३।७१) इति [क] न स्यादेव किं । कुल । प्रथमा सि । 'क्लीबे स्वरान्म् से:' ( ३।२५) सि० म्० । 'मोऽनु० ' (१।२३) अनुस्वारः कुलं । युष्मद् । षष्ठी ङस् । 'तइ-तु-ते- तुम्हं तुह - तुहं०' (३।९९) इत्यादिना ङस्सहितस्य युष्मदः तुह इति तुह ।
। इदम् । द्वितीया इणम् । धनं ।
[ किं किं ते पडिहाइ] किम् । प्रथमा सि । किं पूर्ववत् । युष्मद् । षष्ठी ङस् । 'तइ-तु- ते० ' ( ३।९९) ङस्सहितस्य युष्मदः ते आदेशः ते । प्रतिभाति । 'सर्वत्र ल-व० ' (२।७९) लुक् । 'प्रत्यादौ डः ' (१।२०६ ) ति० डि० । 'ख घथ०' (१९८७) भा०हा० । 'त्यादीनामाद्यत्रयस्या०' (३|१३९) ति० इ० पडिहाइ । एवं द्वितीयायामपि ॥८०॥ वेदं तदेतदो डसाम्भ्यां से सिमौ ॥ ८।३।८१ ॥ इदम्-तद्-एतद् इत्येतेषां स्थाने ङस्-आम् इत्येताभ्यां सह यथासंख्यं से- सिम् इत्यादेशौ वा भवतः ॥
इदम्- से सीलं । से गुणा । अस्य शीलं गुणा वेत्यर्थः ॥ सिं उच्छाहो । एषामुत्साह इत्यर्थः ॥ तद्-से सीलं । तस्य तस्य वेत्यर्थः ॥ सिं गुणा । तेषां तासां वेत्यर्थः ॥ एतद् से अहिअं । एतस्याहितमित्यर्थः ॥ सिं गुणा । सिं सीलं । एतेषां गुणाः शीलं वेत्यर्थः ॥
१. किं किं ते पडिहासइ सहीहि इअ पुच्छिआए मुद्धाए । पढमुग्ग' यदोहलिणीए णवर दइअं गया दिट्ठी ॥ [गा० स० - ११५ । गा० को० - १।१३ । शृ० प्र० - २३।८६ । स० क० - ५ | २३६ ]
किं किं ते प्रतिभासते सखीभिरिति पृष्टाया मुग्धायाः । प्रथमोद्गतदोहदिन्याः केवलं दयितं गता दृष्टिः ॥ १. पाठां० शृ० प्र० पढमुल्लअ० = प्रथमार्द्र० स० क० - प्रथमोद्गत० ।
Loading... Page Navigation 1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442