Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 386
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३७३ [इअम्मि इअस्सि इअत्थ ] अदस् (३) । सप्तमी ङि । 'अन्त्यव्य०' (१।११) स्लुक् । 'ङ: स्सि-म्मि-त्थाः' (३।५९) ङि० → म्मि० । अनेन वा अदसस्थाने इअ-इअम्मि । एवं - स्सि-इअस्सि । त्थ-इअत्थ । पक्षे [अमुस्सि अमुम्मि अमुत्थ ] अदस् । सप्तमी ङि । 'अन्त्यव्य०' (१।११) स्लुक् । 'मुः स्यादौ' (३।८८) दस्य म०। 'डेरिस-म्मि-स्थाः' (३५९) डि. →स्सि -म्मि-स्थ अमुस्सि अमुम्मि अमुत्थ ॥८९।। युष्मदस्तं-तुं-तुवं-तुह-तुमं सिना ॥ ८।३।९० ॥ युष्मदः सिना सह तं-तुं-तुवं-तुह-तुम इत्येते पञ्चादेशा भवन्ति ॥ तं-तु-तुवं-तुह-तुमं दिट्ठो ॥ [युष्मदस्तं-तुं-तुवं-तुह-तुमं सिना] युष्मद् षष्ठी ङस् । तं-तुं-तुवं-तुह-तुमं प्रथमा जस् । 'अव्ययस्य' (३।२७) जस्लुप् । सि तृतीया टा। [तं-तु-तुवं-तुह-तुमं दिट्ठो] दृष्ट । 'इत् कृपादौ' (१।१२८) दृ० → दि० । 'ष्टस्याऽनुष्ट्रष्टा०' (२०३४) ष्ट० → ठ० । 'अनादौ' (२२८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययोः' (२९०) पूर्वठस्य टः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दिवो ॥१०॥ भे-तुब्धे-'तुब्भ-तुम्ह-तुम्हे-उव्हे जसा ॥ ८।३।९१ ॥ युष्मदो जसा-सह भे-तुब्भे-तुब्भ-तुम्ह-तुम्हे-उव्हे इत्येते षडादेशा भवन्ति ॥ भे-तुब्भे-तुब्भ-तुम्ह-तुम्हे-उय्हे चे?ह ॥ 'ब्भो म्ह-ज्झौ वा' (३।१०४) इति वचनात् तुम्हे तुज्झे । एवं चाष्टरूप्यम् ।। [भे-तुब्भे-तुब्भ-तुम्ह-तुम्हे-उय्हे जसा] भे-तुब्भे-तुब्भ-तुम्ह-तुम्हे-उव्हे प्रथमा सि । जस् तृतीया टा । [भे-तुब्भे-तुब्भ-तुम्ह-तुम्हे-उय्हे चेह] चेह पूर्ववत् ॥११॥ तं-तुं-तुम-तुवं-तुह-तुमे-तुए अमा ॥ ८।३।१२ ॥ युष्मदोऽमा सह एते सप्तादेशा भवन्ति ॥ तं-तु-तुम-तुवं-तुह-तुमे-तुए वन्दामि ॥ [तं-तुं-तुमं-तुवं-तुह-तुमे-तुए अमा] तं-तुं-तुमं-तुवं-तुह-तुमे-तुए प्रथमा जस् । अम् तृतीया टा । [तं-तु-तुम-तुवं-तुह-तुमे-तुए वन्दामि] 'वदुङ् स्तुत्यभिवादनयोः' (७२१) वद् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) वन्द् । वर्त० ए । 'तृतीयस्य मिः' (३।१४१) ए० → मि० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) वन्द० । 'मौ वा' (३।१५४) दीर्घः वन्दामि ॥९२॥ वो-'तुब्भ-तुब्भे-तुम्हे-उव्हे-भे शसा ॥ ८।३।९३ ॥ युष्मदः शसा सह एते षडादेशा भवन्ति ॥ वो-तुब्भ-तुब्भे 'ब्भो म्ह-ज्झौ वा (३।१०४) इति वचनात् तुम्हे-तुज्झे-तुम्हे-उय्हे-भे पेच्छामि || [वो-तुब्म-तुब्भे-तुम्हे-उय्हे-भे शसा] वो-तुब्भ-तुब्भे-तुम्हे-उय्हे-भे प्रथमा सि । शस् तृतीया टा । [वो-तुब्भ-तुब्भे-तुम्हे-तुज्झे-तुम्हे-उव्हे-भे पेच्छामि] 'दृशं प्रेक्षणे' (४९५) दृश् । वर्त० ए(मि) । 'दृशो निअच्छ-पेच्छा०' (४।१८१) दृश्० → पेच्छ इति । 'तृतीयस्य मिः' (३६१४१) ए(मिव्) → मि० । 'मौ वा' (३।१५४) दीर्घः - च्छ → च्छा० पेच्छामि ॥१३॥ १. A. इअस्सि - इअत्थ अमुस्सि -० अमुत्थ उदाहरणानि । २. H. L. M. तुज्झ । ३. H. L. M. तुज्झ ।

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442