________________
३२८
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
दीर्घः - हे हरी ! हे हरि ! । हे गुरू ! हे गुरु ! । जाइविसुद्धेण पहू ! । हे प्रभो इत्यर्थः । एवं दोण्णि पहू ! जिअलोए । पक्षे - हे पहु ! । एषु प्राप्ते विकल्पः ।
इह त्वप्राप्ते - हे गोअमा ! हे गोअम ! । हे कासवा ! हे कासव ! | रे रे चप्पलया ! । रे रे निग्घिणया ! ॥ [डो दी? वा] डो प्रथमा सि । दीर्घ प्रथमा सि । वा प्रथमा सि ।
'अत: सेर्डोः' (३२) इत्यनेन नित्यं सिस्थाने डो भवति स विकल्पेन स्यात् । यस्तु 'अक्लीबे सौ' (३.१९) इत्यनेन इकारोकारयोर्दीर्घः प्रोक्तः सोपि वा भवति । 'अक्लीबे सौ' (३।१९) इत्यनेन अकारस्य दीर्घनिषेधेऽनेन अकारस्यापि दी? वा भवति ॥
[हे देवो ! हे देव !] हे देव ! (२) । आम० सि । अनेन वा सि० → डो० → ओ० इति । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) वो ! हे देवो ! । पक्षे - 'अन्त्यव्य०' (१।११) स्लुक् हे देव ! ।
[हे खमासमणो ! हे खमासमण !] हे क्षमाश्रमण ! (२) । 'क्षः खः क्वचित्तु छ-झौ' (२।३) क्ष० → ख० । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) श० → स० । आम० सि । अनेन वा सि० → डो० →
ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) णो ! हे खमासमणो ! । पक्षे - 'अन्त्यव्यः' (१२११) स्लुक् हे खमासमण !।
[हे अज्जो ! हे अज्ज !] हे आर्य ! (२) । 'हस्वः संयोगे' (१८४) आ० → अ० । 'द्य-यय-या जः' (२२४) र्य० → ज० । 'अनादौ०' (२।८९) द्वित्वं - ज्ज० । आम० सि । अनेन वा सि० → डो० → ओ० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) ज्जो ! हे अज्जो ! । पक्षे- 'अन्त्यव्यः' (१।११) स्लुक् हे अज्ज !।
[हे हरी ! हे हरि !] हे हरि ! (२) । आम० सि । अनेन वा इकारो दीर्घः - हे हरी !। पक्षे - 'अन्त्यव्यः' (१।११) स्लु क् हे हरि !।
[हे गुरू ! हे गुरु !] हे गुरु ! (२) । आम० सि । अनेन वा उकारो दीर्घः - हे गुरू ! । पक्षे - 'अन्त्यव्य०' (१।११) स्लुक् हे गुरु !।
[जाइविसुद्धेण पहू !] जातिविशुद्ध । तृतीया टा । 'क-ग-च-ज०' (१।१७७) लुक् । 'श-षोः सः' (१२२६०) शु० → सु० । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) एकारः - द्ध० →द्धे० जाइविसुद्धेण ।
हे प्रभु !। आम० सि । 'सर्वत्र ल-व०' (२१७९) लुक् । 'ख-घ-थ०' (१११८७) भु० → हु० । अनेन वा दीर्घः - हु० → हू० । 'अन्त्यव्य०' (१।११) स्लुक् हे पहू !।
[दोण्णि पहू ! जिअलोए] द्वि । प्रथमा औ । 'द्विवचनस्य बहुवचनम्' (३।१३०) औस्थाने जस् । 'दुवे दोण्णि वेण्णि च जस्-शसा' (३।१२०) द्विस्थाने दोण्णि० जसा सह । दोण्णि ।
प्रभु । आम० सि । 'सर्वत्र ल-व०' (२७९) लुक् । 'ख-घ-थ-ध०' (१।१८७) भस्य हः । अनेन वा दीर्घः - हु० → हू० हे पहू !।
जीवलोक । सप्तमी ङि । 'पानीयादिष्वित्' (१।१०१) जी० → जि० । 'क-ग-च-ज०' (१।१७७) व्लुक् - क्लुक् च । 'डे-म्मि छ:' (३।११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) ए जिअलोए। पक्षे -