________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३२७
हुस्वोऽमि ॥ ८।३।३६ ॥ स्त्रीलिङ्गस्य नाम्नोऽमि परे हुस्वो भवति ॥ मालं । नइं । वहं । हसमाणि हसमाणं पेच्छ । अमीति किम् ? माला । सही । वह ॥' ' [हूस्वोऽमि ] ह्रस्व प्रथमा सि । अम् सप्तमी ङि । [मालं] माला । द्वितीया अम् । अनेन हुस्वः । 'शेषेऽदन्तवत्' (३।१२४) ततः 'अमोऽस्य' (३५) अलुक् मालं ।
[नई] नदी । द्वितीया अम् । अनेन ह्रस्वः । 'क-ग-च-ज०' (१।१७७) लुक् । 'शेषेऽदन्तवत्' (३।१२४) ततः 'अमोऽस्य' (३५) अलुक् नई ।
[वहुं] वधू । द्वितीया अम् । अनेन हुस्व: । 'ख-घ-थ-ध-भाम्' (१।१८७) धु० → हु० । 'शेषेऽदन्तवत्' (३।१२४) तत: 'अमोऽस्य' (३५) अलुक् वहुं ।
[हसमाणिं हसमाणं पेच्छ] हसमानी - हसमाना । द्वितीया अम् । अनेन हुस्वः । 'नो णः' (१।२२८) नि० → णि० - न० → ण । 'शेषेऽदन्तवत्' (३।१२४) ततः 'अमोऽस्य' (३५) अलुक् हसमाणिं हसमाणं । पेच्छ पूर्ववत् [३३२८] ।
[माला] माला । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् माला । [सही ] सखी । प्रथमा सि । 'ख-घ-थ०' (१।१८७) खी० → ही० । 'अन्त्यव्यः' (१।११) स्लुक् सही । [वहू] वधू । प्रथमा सि । 'ख-घ-थ-ध०' (१।१८७) धू० → हू० । 'अन्त्यव्य०' (१।११) स्लुक् वहू ॥३६॥
नाऽऽमन्त्र्यात्सौ मः ॥ ८॥३॥३७॥ आमन्त्र्यार्थात्परे सौ सति 'क्लीबे स्वरान्म् से:' (३।२५) इति यो म् उक्तः स न भवति ॥ हे तण ! । हे दहि ! । हे महु ! | [नाऽऽमन्त्र्यात्सौ मः] न प्रथमा सि । आमन्त्र्य पञ्चमी ङसि । सि सप्तमी ङि । म प्रथमा सि । [हे तण !] हे तृण ! । प्रथमा सि । 'ऋतोऽत्' (१२१२६) तृ० → त० । 'अन्त्य०' (११११) स्लुक् हे तण !।
[हे दहि !] हे दधि ! । प्रथमा सि । 'ख-घ-थ०' (१।१८७) धि० → हि० । 'अन्त्यव्य०' (१।११) स्लुक् हे दहि!। [हे महु !] हे मधु ! । प्रथमा सि । 'ख-घ-थ०' (१।१८७) धु० → हु० । 'अन्त्यव्य०' (१।११) स्लुक् हे महु ! ॥३७॥
डो दीर्घो वा ॥ ८॥३॥३८ ॥ आमन्त्र्यार्थात्परे सौ सति 'अतः से?ः' (३।२) इति यो नित्यं डोः प्राप्तो यश्च 'अक्लीबे सौ' (३।१९) इति इदुतोरकारान्तस्य च प्राप्तो दीर्घः स वा भवति ॥
हे देव ! हे देवो ! । हे खमासमण ! । हे खमासमणो ! । हे अज्ज ! हे अज्जो ! ॥
१. G दी? ।