SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३२९ [हे पहु !] हे प्रभु ! । आम० सि । 'सर्वत्र ल-व०' (२१७९) लुक् । 'ख-घ-थ०' (१२१८७) भस्य हः । 'अन्त्य०' (१।११) स्लुक् हे पहु ! । एषु दीर्घत्वप्राप्तेऽनेन विकल्पः । अप्राप्ते दीर्घविकल्पो यथा [हे गोअमा ! हे गोअम !] हे गौतम ! (२) । आम० सि । 'औत ओत्' (१४१५९) गौ० → गो० । 'क-ग-चज०' (१।१७७) त्लुक् । अनेन वाऽकारस्य दीर्घः - म० → मा० । 'अन्त्यव्य०' (१२११) स्लुक् हे गोअमा ! हे गोअम !। [हे कासवा ! हे कासव !] हे काश्यप ! (२) । आम० सि । 'अधो म-न-याम्' (२७८) यलुक् । 'श-षोः सः' (१।२६०) श० → स० । 'पो वः' (१२२३१) प० →व० । अनेन वा दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् हे कासवा! हे कासव !। [रे रे चप्फलया !] रे रे ! । आम० सि । 'अव्ययस्य' (३।२७) सिलुप् रे रे । मिथ्यावादिन् । आम० सि । 'गोणादयः' (२।१७४) चप्पल इत्यादेशः । 'स्वार्थे कश्च वा' (२२१६४) कप्र० । अनेन वा दीर्घः - क० → का० । 'कग-च-ज०' (१।१७७) क्लुक् । 'अवर्णो यश्रुतिः' (१११८०) आ० → या० । 'अन्त्यव्यञ्ज०' (१।११) स्लुक् चप्फलया !। [रे रे निग्घिणया !] रे रे । आम० सि । 'अव्ययस्य' (३।२७) सिलुप् रे रे । निघृण । आम० सि । 'सर्वत्र लव०' (२७९) लुक् । 'इत्कृपादौ' (१।१२८) घृ० → घि० । 'अनादौ०' (२।८९) द्वित्वं - घि० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वघस्य गः । 'स्वार्थे कश्च वा' (२।१६४) कप्र० । अनेन वा दीर्घः - क० → का० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अवर्णो०' (१।१८०) आ० → या० । 'अन्त्यव्य०' (१।११) स्लुक् निग्घिणया ! ॥३८॥ ऋतोऽद्वा ॥ ८।३।३९ ॥ ऋकारान्तस्याऽऽमन्त्रणे सौ परे अकारोऽन्तादेशो वा भवति ॥ हे पितः → हे पिअ ! । हे दातः ! → हे दाय ! । पक्षे- हे पिअरं ! । हे दायार ! । [ऋतोऽद्वा] ऋत् षष्ठी ङस् । अत् प्रथमा सि । वा प्रथमा सि । [हे पिअ !] हे पितृ ! । आमन्त्रणे सि । अनेन वा तृ० → त० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अन्त्यव्यञ्जनस्य' (१२११) स्लुक् हे पिअ !। [हे दाय !] हे दातृ ! । आमन्त्रणे सि । अनेन वा तृ० → त० । 'क-ग-च-ज०' (१।१७७) लुक् । 'अवर्णो०' (१।१८०) अ० → य० । 'अन्त्यव्य०' (१।११) स्लुक् हे दाय ! । पक्षे - [हे पिअरं !] हे पितृ ! । आमन्त्रणे सि । 'नाम्न्यरं वा' (३।४०) ऋकारस्य अरं । 'लोकात्' (१११२३) पितरं । 'कग-च-ज०' (११७७) त्लुक् । 'अन्त्यव्य०' (१।११) स्लुक् हे पिअरं !। [हे दायार !] हे दातृ ! । आमन्त्रणे सि । 'आरः स्यादौ' (३।४५) ऋकारस्य आर० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० । 'अन्त्यव्य०' (१।११) स्लुक् हे दायार ! ॥३९॥ नाम्न्यरं वा ॥८॥३॥४०॥ ऋदन्तस्याऽऽमन्त्रणे सौ परे नाम्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति ॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy