Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 374
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३६१ [कदो ] किम् । “किमद्व्यादिसर्वाद्य०' (७।२।८९) तस्प्र० । अनेन किम्० → क० । 'त्तो दो तसो वा' (२।१६०) तस्स्थाने दो० कदो ॥७१।। इदम इमः ॥८॥३७२ ॥ इदमः स्यादौ परे इम आदेशो भवति ॥ इमो । इमे । इमं । इमे । इमेण । स्त्रियामपि - इमा ॥ [इदम इमः ] इदम् षष्ठी ङस् । इम प्रथमा सि ।। [इमो] इदम् । प्रथमा सि । अनेन इदम् → इम० । 'अतः से?ः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१११४) अलुक् इमो । [इमे] इदम् । प्रथमा जस् । अनेन इदम् → इम० । 'अतः सर्वादेर्डेजसः' (३५८) जस्० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) इमे । [इमं ] इदम् । द्वितीया अम् । अनेन इदम् → इम० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१।२३) अनुस्वारः • इमं । [इमे] इदम् । द्वितीया शस् । अनेन इदम् → इम० । 'टाण-शस्येत्' (३।१४) एत्त्वं- म० → मे० । 'जस्शसोलुंक्' (३।४) शस्लुक् इमे । [इमेण] इदम् । तृतीया टा । अनेन इदम् → इम० । 'टा-आमोर्णः' (३।६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्वं- म० → मे० इमेण । [इमा] इदम् । प्रथमा सि । अनेन इदम् → इम० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् इमा ॥७२॥ पुं-स्त्रियोर्नवाऽयमिमिआ सौ ॥ ८१३७३ ॥ इदमशब्दस्य सौ परे अयमिति पुल्लिङ्गे-इमिआ इति स्त्रीलिङ्गे आदेशौ वा भवतः ॥ अहवायं कयकज्जो । इमिआ वाणिअधूआ । पक्षे-इमो । इमा ॥ [पुं-स्त्रियोर्नवाऽयमिमिआ सौ] पुं-स्त्री सप्तमी ओस् । नवा प्रथमा सि । अयमिमिआ प्रथमा औ । सि सप्तमी ङि। अहवायं कयकज्जो मज्झ कए मुक्कजीविओ सोमित्ती । निप्पलछूढभुअभरो नवर मए चेय लहुईकओ अप्पाणो ॥१॥ अस्यार्थः - लक्ष्मणस्य शक्तिभेदे रामोक्तिः । अथवायं- अयं सौमित्रिर्लक्ष्मणो मम कृते मुक्तजीवितो वर्तते । किंविशिष्टः सौमित्रिः ? कृतं कार्य येन स कृतकार्यः । मया आत्मा लघुकीकृतः । आत्मा कथम्भूतः ? नवरं-केवलं - निष्फलो छूढो धृतो भुजभरो येन स इत्यर्थः ।। [अहवायं कयकज्जो ] अथवा । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः । 'अव्ययस्य' (३।२।६) सिलुप् अहवा । इदम् । प्रथमा सि । अनेन वा पुल्लिङ्गे इदम् → अयं० । 'अन्त्यव्य०' (१।११) स्लुक् अयं । कृतकार्य। प्रथमा सि । 'ऋतोऽत्' (१।१२६) कृ० → क० । 'क-ग-च-ज०' (१।१७७) तलक । 'हस्वः संयोगे' (१९८४) क० । 'द्य-य्य-यां जः' (२।२४) र्य० → ज० । 'अनादौ०' (२१८९) जस्य द्वित्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० कयकज्जो ।

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442