________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३६१
[कदो ] किम् । “किमद्व्यादिसर्वाद्य०' (७।२।८९) तस्प्र० । अनेन किम्० → क० । 'त्तो दो तसो वा' (२।१६०) तस्स्थाने दो० कदो ॥७१।।
इदम इमः ॥८॥३७२ ॥ इदमः स्यादौ परे इम आदेशो भवति ॥ इमो । इमे । इमं । इमे । इमेण । स्त्रियामपि - इमा ॥ [इदम इमः ] इदम् षष्ठी ङस् । इम प्रथमा सि ।।
[इमो] इदम् । प्रथमा सि । अनेन इदम् → इम० । 'अतः से?ः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१११४) अलुक् इमो ।
[इमे] इदम् । प्रथमा जस् । अनेन इदम् → इम० । 'अतः सर्वादेर्डेजसः' (३५८) जस्० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) इमे ।
[इमं ] इदम् । द्वितीया अम् । अनेन इदम् → इम० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१।२३) अनुस्वारः • इमं ।
[इमे] इदम् । द्वितीया शस् । अनेन इदम् → इम० । 'टाण-शस्येत्' (३।१४) एत्त्वं- म० → मे० । 'जस्शसोलुंक्' (३।४) शस्लुक् इमे ।
[इमेण] इदम् । तृतीया टा । अनेन इदम् → इम० । 'टा-आमोर्णः' (३।६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्वं- म० → मे० इमेण ।
[इमा] इदम् । प्रथमा सि । अनेन इदम् → इम० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् इमा ॥७२॥
पुं-स्त्रियोर्नवाऽयमिमिआ सौ ॥ ८१३७३ ॥ इदमशब्दस्य सौ परे अयमिति पुल्लिङ्गे-इमिआ इति स्त्रीलिङ्गे आदेशौ वा भवतः ॥ अहवायं कयकज्जो । इमिआ वाणिअधूआ । पक्षे-इमो । इमा ॥ [पुं-स्त्रियोर्नवाऽयमिमिआ सौ] पुं-स्त्री सप्तमी ओस् । नवा प्रथमा सि । अयमिमिआ प्रथमा औ । सि सप्तमी ङि। अहवायं कयकज्जो मज्झ कए मुक्कजीविओ सोमित्ती । निप्पलछूढभुअभरो नवर मए चेय लहुईकओ अप्पाणो ॥१॥
अस्यार्थः - लक्ष्मणस्य शक्तिभेदे रामोक्तिः । अथवायं- अयं सौमित्रिर्लक्ष्मणो मम कृते मुक्तजीवितो वर्तते । किंविशिष्टः सौमित्रिः ? कृतं कार्य येन स कृतकार्यः । मया आत्मा लघुकीकृतः । आत्मा कथम्भूतः ? नवरं-केवलं - निष्फलो छूढो धृतो भुजभरो येन स इत्यर्थः ।।
[अहवायं कयकज्जो ] अथवा । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः । 'अव्ययस्य' (३।२।६) सिलुप् अहवा । इदम् । प्रथमा सि । अनेन वा पुल्लिङ्गे इदम् → अयं० । 'अन्त्यव्य०' (१।११) स्लुक् अयं । कृतकार्य। प्रथमा सि । 'ऋतोऽत्' (१।१२६) कृ० → क० । 'क-ग-च-ज०' (१।१७७) तलक । 'हस्वः संयोगे' (१९८४) क० । 'द्य-य्य-यां जः' (२।२४) र्य० → ज० । 'अनादौ०' (२१८९) जस्य द्वित्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० कयकज्जो ।