________________
३६०
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[तो णेण करयलट्ठिआ] तद् । पञ्चमी ङसि । 'तदो डोः' (३।६७) ङसि० → डो० → ओ० । 'अन्त्यव्य०' (१।११) लुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । ‘लोकात्' (१।१॥३) तो । णेण पूर्ववत् ।
करतलस्थिता । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । स्थाधातुः । 'स्थष्ठा-थक्क०' (४।१६) स्थस्य ठः - स्थि० → ठि० । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अन्त्यव्य०' (१।११) स्लुक् करयलट्ठिआ ।
[भणिअं च णाए] भणि पूर्ववत् । तद् । तृतीया टा । 'अन्त्यव्य०' (११११) द्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अनेन ता० →णा० । 'टा-ङस्-डेरदादि०' (३।२९) टा० → ए० णाए ।
[णेहिं कयं] तद् । तृतीया भिस् । 'अन्त्य०' (१।११) द्लुक् । अनेन त० → ण । 'भिसो हि-हि-हिं' (३७) भिस्० → हिं० । 'भिस्-भ्यस्-सुपि' (३।१५) एत्त्वं- ण. →णे० णेहिं । कयं पूर्ववत् [२।११४] ।
[णार्हि कयं] तद् । तृतीया भिस् । 'अन्त्यव्य०' (११११) द्लुक् । अनेन त० →ण० 'आत्' (२।४।१८) आपप्र० →आ । 'भिसो हि-हि-हिं' (३७) भिस् → हिं० णाहिं । कयं पूर्ववत् [२।११४] ॥७॥
किमः कस्त्र-तसोश्च ॥ ८।३७१ ॥ किम: को भवति, स्यादौ त्र-तसोश्च परयोः ॥ को । के। कं । के। केण ॥ त्र-कत्थ ॥ तस्-कओ। कत्तो । कदो ॥ [किमः कस्त्र-तसोश्च ] किम् षष्ठी ङस् । क प्रथमा सि । त्र-तस् सप्तमी ओस् । च प्रथमा सि ।
[को] किम् । प्रथमा सि । अनेन किम् → क० । 'अतः सेझैः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२१२११४) अलुक् को ।
[के] किम् । प्रथमा जस् । अनेन किम्० → क० । 'अतः सर्वादेर्डेर्जसः' (३५८) जस्० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) के के।
[कं] किम् । द्वितीया अम् । अनेन किम्० → क० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१।२३) अनुस्वारः कं।
[के] किम् । द्वितीया शस् । अनेन किम्० → क० । 'टाण-शस्येत्' (३।१४) एत्त्वं- क० → के० । 'जस्शसोलुंक्' (३।४) शस्लुक् के ।
[केण] किम् । तृतीया टा । अनेन किम् → क० । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्त्वं - क→के० केण ।
[कत्थ ] किम् । सप्तमी ङि । अनेन किम्० → क० । 'सप्तम्याः' (७२।९४) त्रप्र० । 'त्रपो हि-ह-त्थाः' (२।१६१) त्रप्० → त्थ० कत्थ ।।
[कओ] किम् । किमद्व्यादिसर्वाद्यवैपुल्य०' (७।२।८९) तस्प्र० । अनेन किम् → क० । 'सो रुः' (२।१।७२) स० → रु० । 'रः पदान्ते०' (१।३।५३) विसर्गः । 'अतो डो विसर्गस्य' (१।३७) विसर्गस्थाने डो० → ओ० इति । 'डित्यन्त्य०' (२२१११४) अलुक् । 'क-ग-च-ज०' (१११७७) तलुक् कओ।
[कत्तो] किम् । 'किमद्व्यादिसर्वाद्य०' (७२।८९) तस्प्र० । अनेन किम् → क० । 'तो दो तसो वा' (२।१६०), तस्स्थाने त्तो० कत्तो।