Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 373
________________ ३६० व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [तो णेण करयलट्ठिआ] तद् । पञ्चमी ङसि । 'तदो डोः' (३।६७) ङसि० → डो० → ओ० । 'अन्त्यव्य०' (१।११) लुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । ‘लोकात्' (१।१॥३) तो । णेण पूर्ववत् । करतलस्थिता । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । स्थाधातुः । 'स्थष्ठा-थक्क०' (४।१६) स्थस्य ठः - स्थि० → ठि० । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अन्त्यव्य०' (१।११) स्लुक् करयलट्ठिआ । [भणिअं च णाए] भणि पूर्ववत् । तद् । तृतीया टा । 'अन्त्यव्य०' (११११) द्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अनेन ता० →णा० । 'टा-ङस्-डेरदादि०' (३।२९) टा० → ए० णाए । [णेहिं कयं] तद् । तृतीया भिस् । 'अन्त्य०' (१।११) द्लुक् । अनेन त० → ण । 'भिसो हि-हि-हिं' (३७) भिस्० → हिं० । 'भिस्-भ्यस्-सुपि' (३।१५) एत्त्वं- ण. →णे० णेहिं । कयं पूर्ववत् [२।११४] । [णार्हि कयं] तद् । तृतीया भिस् । 'अन्त्यव्य०' (११११) द्लुक् । अनेन त० →ण० 'आत्' (२।४।१८) आपप्र० →आ । 'भिसो हि-हि-हिं' (३७) भिस् → हिं० णाहिं । कयं पूर्ववत् [२।११४] ॥७॥ किमः कस्त्र-तसोश्च ॥ ८।३७१ ॥ किम: को भवति, स्यादौ त्र-तसोश्च परयोः ॥ को । के। कं । के। केण ॥ त्र-कत्थ ॥ तस्-कओ। कत्तो । कदो ॥ [किमः कस्त्र-तसोश्च ] किम् षष्ठी ङस् । क प्रथमा सि । त्र-तस् सप्तमी ओस् । च प्रथमा सि । [को] किम् । प्रथमा सि । अनेन किम् → क० । 'अतः सेझैः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२१२११४) अलुक् को । [के] किम् । प्रथमा जस् । अनेन किम्० → क० । 'अतः सर्वादेर्डेर्जसः' (३५८) जस्० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) के के। [कं] किम् । द्वितीया अम् । अनेन किम्० → क० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१।२३) अनुस्वारः कं। [के] किम् । द्वितीया शस् । अनेन किम्० → क० । 'टाण-शस्येत्' (३।१४) एत्त्वं- क० → के० । 'जस्शसोलुंक्' (३।४) शस्लुक् के । [केण] किम् । तृतीया टा । अनेन किम् → क० । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्त्वं - क→के० केण । [कत्थ ] किम् । सप्तमी ङि । अनेन किम्० → क० । 'सप्तम्याः' (७२।९४) त्रप्र० । 'त्रपो हि-ह-त्थाः' (२।१६१) त्रप्० → त्थ० कत्थ ।। [कओ] किम् । किमद्व्यादिसर्वाद्यवैपुल्य०' (७।२।८९) तस्प्र० । अनेन किम् → क० । 'सो रुः' (२।१।७२) स० → रु० । 'रः पदान्ते०' (१।३।५३) विसर्गः । 'अतो डो विसर्गस्य' (१।३७) विसर्गस्थाने डो० → ओ० इति । 'डित्यन्त्य०' (२२१११४) अलुक् । 'क-ग-च-ज०' (१११७७) तलुक् कओ। [कत्तो] किम् । 'किमद्व्यादिसर्वाद्य०' (७२।८९) तस्प्र० । अनेन किम् → क० । 'तो दो तसो वा' (२।१६०), तस्स्थाने त्तो० कत्तो।

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442