Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 216
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३३] पदार्थचन्द्रिकाटीकासहिता । २१३ एषा खलु दोषाकुलसकलमनुजकुलसकलकलुषशोषणबद्धकैकणा। निजतटनिबिडतमबँकुलधवलकुलतिलकामलकाविरलसरलकुन्दचन्दनमन्दारसहकारकेरलकेसैरसरलबदरकदम्बकदम्बकगम्भीरजम्बीरजम्बूसंपूर्णपर्णकुसुमपलाशसमृद्धकपित्थलोध्रनीरन्ध्रशिलीन्ध्रपाटलपटलजटिलक्रमुकप्रमुखविशङ्कटविटपिमञ्जरीपुञ्जसञ्जरीजृम्भदुरुतरश्रमशमकरमकरन्दरस कावेरीप्रवाहः तमसः अज्ञानस्य पापस्य वा शमनार्थ विनाशार्थ अजायत प्रकटीबभूव ॥ ३९० ॥ एषेति । एषा कावेरी नदी खलु दोषैः पापैराकुलानि व्याप्तानि यानि सकलमनुजकुलानि निखिलमनुष्यवृन्दानि तेषां सकलकलुषाणां सकलपातकानां शोषणे नाशने बद्धं कङ्कणं यया सा, तदर्थ कृतनिश्चयेति यावत् । निजतटे स्वकीयतीरे निबिडतमाः अतिसान्द्राः ये बकुला बकुलवृक्षाश्च धवलकुलानि अर्जुनवृक्षसमूहाश्च तिलकाः क्षुरकाश्च "तिलकः क्षुरकः श्रीमान्" इत्यमरः । आमलकाश्च अविरला निबिडाः सरलाः पीतसंज्ञकवृक्षाश्च "पीतद्रुः सरलः पूतिकाष्ठं" इत्यमरः । कुन्दाश्च चन्दनाश्च मन्दाराः पारिजातकाच “मन्दारः पारिजातकः" इत्यमरः । सहकारा आम्रवृक्षाच केरलाश्च वृक्षविशेषाः केसराश्च सरलाच, कचित् सरस इति पाठः । तत्पक्षे बदरविशेषणम् । बदराश्च कदम्बा नीपाश्च "तूलं च नीप-प्रियक-कदम्बास्तु हलिप्रिये ।" इत्यमरः । तेषां वृक्षविशेषाणां कदम्बकं समूहः तथा गम्भीरा ये जम्बीराश्च जम्ब्वः जम्बूवृक्षाश्च, जम्बूशब्दः स्त्रीलिङ्गः । “बार्हतं च फले जम्ब्वा जम्बू स्त्री जम्बु जाम्बवम् ।” इत्यमरात् । संपूर्णानि समग्राणि निबिडानीति यावत् । पर्णानि कुसुमानि पुष्पाणि च येषु तादृशाः पलाशाः किंशुकाः "पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे ।" इत्यमरः । समृद्धाः ये कपित्थाः लोध्राश्च तैः नीरन्ध्राः सान्द्राः शिलीन्ध्राः पाटलाश्च तेषां पटलानि समूहाः “ समूहे पटलं न ना" इत्यमरः । तैश्च जटिला निबिडाः अन्योन्यसंमिश्रा इत्यर्थः । ये क्रमुकाः पूगवृक्षाश्च " घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु ।" इत्यमरः । ते सर्व प्रमुखा मुख्याः येषु ते ये विशङ्कटाः विशालाः “ विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ।" इत्यमरः । विटपिनो वृक्षाः तेषां मञ्जरीपुळेभ्यः मअरीसमूहेभ्यः संजरीज़म्भन् अत्यन्तं प्रवहन् , जृम्भतेर्यलुकि द्वित्वे च "रीगृदुपधस्य च” इत्यभ्यासस्य रीगागमः। उरुतरः अतिबहुलः श्रमशमकरः ग्लानिनिवारकः मकरन्दरसः पुष्परससारं तस्य सुग्रसने सुष्ठु पाने तात्पर्य अत्यन्तासक्तत्वं तेन पर्यटन्तः परितो भ्रमन्तः अदभ्राणां बहूनां. विभ्रमाणामालम्बा आश्रयभूताः रोलम्बा भ्रमरास्तेषां निकुरम्बै समूहैः १ किल'. २ 'दोषाकुलमनुज'. ३ 'बद्धकङ्कणकङ्कणा'. ४ 'बकुलबकुल', 'बकुलधरबकुल', 'बकुलधवलबकुलकुल'. ५ 'सहकारकेसरं'. ६ 'सरसकदम्बकदम्बकबदर'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331