Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 241
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीनिरूप्य सविस्मयम् शक्राद्यर्थ हविरघहरं शौरिणाऽऽखादितं यत् __ दत्तं वित्तग्रहणचपलाः केऽपि विक्रीणते तत् ।। धाम श्रीमद्यदि मधुजिता दीयते खीयमेते नो त्रस्यन्ते धनकणतृषा तच्च विक्रेतुमज्ञाः ॥ ४३९ ॥ वि०-मन्दमते मैवं भाणीः ॥ १८४ ॥ किं किं न जीर्यति मुकुन्दपदारविन्द द्वन्द्वाभिवन्दनकृतामिह देहभाजाम् ॥ अत्यद्भुतौषधविशेषनिषेवकाणा मापादयेत ? किमनर्थमपथ्यसेवा ॥ ४४०॥ -- 'अदृशूला' इत्युक्तमेव सविस्तरमुपपादयति-शकाद्यर्थमिति । यत् हविः शौरिणा विष्णुना आखादितं भक्षितं, तस्मै समर्पितमिति यावत् । अत एव तदघहर पापनिवारकं हविः शक्र इन्द्रः आदिमुख्यो येषां अमिवरुणादीनां तदर्थ दत्तं समर्पितं च तत् हविः केऽपि नीचाः वित्तग्रहणचपलाः द्रव्यसंपादनलोलुपाः सन्तः विक्रीणते । नैतावदेव किंतु मधुजिता विष्णुना यद्यपि श्रीमत् संपत्तियुक्त लक्ष्मीयुक्तं वा स्वीयं धाम वैकुण्ठस्थानं दीयते समर्म्यते, तथापि एते अज्ञा मूर्खाः धनकणे अल्पीयस्यपि द्रव्ये इत्यर्थः । तृषा वाञ्छा तया तच विष्णुपदमपि, विकेतुं नो त्रस्यन्ते नैव बिभ्यति । तस्मान्नैतेभ्यो द्रव्यार्जनकपरेभ्यः अन्ये नीचा इति भावः ॥ ४३९॥ कि किमिति । इह रणक्षेत्रे मुकुन्दस्य भगवतो विष्णोः पादारविन्दयोश्चरणकमलयोर्द्वन्द्वस्य अभिवन्दनं अभिवादनं कुर्वन्तीति तथाभूतास्तेषां देहभाजां प्राणिनां किं किं पापाचरणं न जीयति न नश्यति ? अपि तु सर्वमेव जीर्यसेवेत्यर्थः । एतदेवार्थान्तरन्यासेनाह-अत्यद्भुतेति । अत्यद्भुतः सत्वररोगनिवारकत्वादयाश्वर्यावहः य औषधविशेषः तस्य निषेवकाणां पानं कुर्वतां रोगिणां अपथ्यसेवा अपथ्यभक्षणं अनर्थ रोगवृद्धिकरणरूपं आपादयेत संपादयेत किम् ? अपि तु नैव संपादयेदित्यर्थः । पथ्यसेवनं हि क्षुद्रौषधखीकारे, न दिव्यौषधखीकारे इति भावः । तथैव दृढभगवदासक्तिसत्वे एतादृशक्षुद्रपापाचरणं नैव दोषायेति ज्ञेयम् ॥ ४४० ॥ १ 'धीयते'. २ 'नो त्रप्स्यन्ते'. ३ विक्रीणतेऽज्ञाः'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331