Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra २६० www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:अथ ताम्रपर्णीवर्णनम् ४०. [ शठकोपमुनि इति परावृत्यान्यतोऽवलोक्य सामोदम्तापं विलुम्पति नृणामिह ताम्रपर्णी - त्याख्यां वहन्नघर्दवानलजृम्भणोत्थम् ॥ पाथोनिधेस्त्रिजगति प्रथितोऽवरोधो रोघोलसत्परमहर्षमहर्षियूथः ॥ ४८७ ॥ अथ कुरुकानगर श्रीशठकोपमुनिवर्णनम् ४१. तदभ्यर्ण निर्वर्ण्य चकास्ति कुरुकापुरी शुचिनि ताम्रपर्णीतटे विरक्तिपरिपक्त्रिमत्रियुगभक्तिभिर्वैष्णवैः 11 दृढव्रतशठार्युरोबकुलसंपतद्बम्भर - ध्वनिद्विगुणजृम्भणद्रविडवेदघोषोज्ज्वला ॥ ४८८ ॥ एवं सेतुं संवर्ण्य ततो निवृत्य ताम्रपर्णीत्याख्यां नदीं वर्णयतीत्याहइतीत्यादि । adid तापमिति । रोधसोस्तीरयोः लसन्ति शोभमानानि परमहर्षाणां अतिशयानन्दकानां महर्षीणां यूथानि समूहाः यस्य सः, अत एव त्रिजगति त्रैलोक्ये प्रथितः प्रसिद्धः पाथोनिधेः समुद्रस्य अवरोधः अन्तःपुरस्त्री ताम्रपर्णी इति प्रसिद्धां आख्यां नाम वहन् धारयन् सन् इह लोके नृणां मनुष्याणां अघानि पापान्येव दवानलस्तस्य जृम्भणात् प्रज्वलनात् उत्थमुत्पन्नं तापं आध्यात्मिकादिरूपं विलुम्पति विनाशयति ॥ ४८७ ॥ For Private And Personal Use Only एवं ताम्रपर्णी प्रस्तूय तत्समीपवर्तिश्रीशठकोपमुनिं वर्णयितुं प्रस्तौति-तदित्यादि । अभ्यर्ण समीपदेशम् चकास्तीति । शुचिनि पवित्रे ताम्रपर्ण्या नद्यास्तटे तीरे दृढव्रतस्य निर्भर - नियमसंपन्नस्य शठारेः एतन्नामकवैष्णवगुरोः उरः स्थिते बकुले बकुलमालायां संपतन्तः संप्राप्नुवन्तः ये बम्भराः भ्रमरास्तेषां ध्वनिभिः गुञ्जारवशब्दैः द्विगुणं जृम्भणं ध्वनिप्रसारणं येषां तैर्द्रविडपठितैर्वेदघोषैः उज्ज्वला कान्तिमती कुरुकाख्या पुरी १ ‘वहन्भवदवानलजृम्भितोत्थांम्.

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331