Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् ४३ ]
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पदार्थचन्द्रिकाटीकासहिता ।
पराशरभुवा शास्त्रं ब्रह्मज्ञानाय निर्मितम् ॥
असमञ्जसतां नीतमद्वैतैब्रह्मवादिभिः ॥ ५११ ॥
किं च यादृशस्वभावः सर्वेश्वरस्तद्विपरीतमेव तैमुशन्ति विरुद्धमर्तय
एते ॥ २१६ ॥
सर्वज्ञमज्ञ इति सर्वपदाभिधेयम् कस्याप्यवाच्य इति सर्वमहागुणानाम् ॥
स्थानं च निर्गुण इतीह समस्तवेद
वेद्यं त्ववेद्य इति ते जगदीशमाहुः ॥५१२ ॥
किंबहुना -
विविधदुरितत्रातस्फीतस्थिरव्यसनाकुलादतिमितमते जवादेवाभिदां परमेशितुः ||
अपगतपरिच्छेदामोदाम्बुधेरुपगच्छताम्
२७१
मशकशिशुतोऽभेदो न स्यात्कुतो मदहस्तिनः || ५१३ ॥
1
उक्तार्थमेव प्रपञ्चयति – पराशरभुवेति । पराशरभुवा श्रीमद्यासेन शास्त्रं सूत्ररूपं ब्रह्मणः ज्ञानाय ज्ञानार्थमेव, सकलजीवानामिति शेषः । निर्मितं रचितम् । तदपि द्वे जीव-ब्रह्मरूपे इते गते यस्मात् तद्वीतं द्वीतमेव द्वैतं जीव-ब्रह्मणोर्द्विरूपत्वं तन्न भवतीत्यद्वैतं जीवात्म - परमात्मनोरैक्यरूपं ब्रह्म एकमिति वदन्तीति तद्वादिभिः "आत्मा वा इदमेक एवाग्र आसीत् नान्यत् किंचन मिषत्" "एकमेवाद्वितीयम्” “तत्त्वमसि' इत्यादिबहुलश्रुत्यनुरोधेन जीवात्मनोरेकत्वप्रतिपादकैरित्यर्थः । असमञ्जसतां अयोग्यतां नीतं प्रापितम् ॥ ५११ ॥
किंचेति । किंच यादृशस्वभावः तत्त्वतो यत्प्रकाररूपो भगवान् सर्वेश्वरः तस्माद्विपरीतं विरुद्ध स्वभावमेव तं सर्वेश्वरं परमात्मानं उशन्ति इच्छन्ति । विरुद्धमतयः एते अद्वैतिनः ॥ २१६ ॥
सर्वज्ञमिति । ते अद्वैतवादिनः वस्तुतः सर्वे भूतभविष्यादि जानातीति सर्वज्ञः तं जगदीश अज्ञ: अल्पज्ञः ज्ञातुमशक्यश्च इति, आहुः कथयन्ति । एतदेव सर्वत्रान्वेतव्यम् । सर्वेषां पदानां शब्दानां अभिधेयं वाच्यं जगदीश, कस्यापि पदस्य अवाच्यः इति, सर्वेषां महागुणानां स्रष्टृत्वादीनां स्थानभूतं जगदीशं निर्गुण: सत्त्व- रजआदिगुणरहितः इति, समस्तैः सर्वैरपि वेदैर्वेद्यं ज्ञेयं, तुपदं विरोधसूचकम् । अवेद्यः “विज्ञातारमरे केन विजानीयात्" इत्यादिश्रुतिभिः अज्ञेय इति च आहुः ॥ ५१२ ॥
विविधेति । विविधानामनेकेषां दुरितानां पापानां व्रातेन समूहेन स्फीतैः १ 'भोक्त, वेद्यं'. २ 'तमुपदिशन्ति' ३ 'बुद्धयः".
४ 'तं'.
For Private And Personal Use Only

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331