Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir —वर्णनम् ४५ ] अपि च कषायैरुपवासैश्च नृणामुल्लाघतां कृताम् ॥ निजौषधकृतां वैद्यो निवेद्य हरते धनम् ॥ ५३८ ॥ वि० – वयस्य ! विश्वोपकारिषु वैद्येषु अवद्यानि न केलयेथाः २३१ पश्य पदार्थचन्द्रिकाटीकासहिता । मस्ते दुःसहवेदनाकवलिते ममे खरेऽन्तर्गलम् तप्तायां ज्वरपावकेन च तनौ तान्ते हृषीकत्रजे ॥ २८५ दूने बन्धुजने कृतप्रलपने धैर्य विधातुं पुनः कः शक्तः कलितामयप्रशमनाद्वैद्यात्परो विद्यते ? ॥ ५३९॥ दीनां तत्त्वतः अवगतिर्ज्ञानं चापि न, वस्तूनां औषधीनां गुणाः शैत्यौष्ण्यादयः तेषां धीर्ज्ञानं नो नास्ति । तथापि औषध - रोगादिज्ञानाभावे सत्यपि वैद्या वयं इति कथयित्वा जडजनान् मूर्खलोकान् तरलयन्तो मोहयन्तः सन्तः मृत्योर्यमस्य भृत्याः दूता इवेत्युत्प्रेक्षा । गदजुषां रोगिणां वसु द्रव्यं, असून प्राणांश्चापि हरन्ते अपहरन्ति ॥ ५३७ ॥ कषायैरिति । कषायैः त्रिकटु-त्रिफलादिसाररूपैः उपवासैर्लङ्घनैश्वापि नृणां मनुष्याणां उल्लाघतां नीरोगतां " अनुपसर्गात्फुल्ल-क्षीब- कृशोलाघाः" इति निपातनात्साधुः । “उल्लाघो निर्गतो गदात्" इत्यमरः । कृतां संपादितां वैद्यः निजैः स्वकीयैः औषधैः कृतां संपादितां निवेद्य कथयित्वा धनं हरते । रोगिजनानामिति शेषः ॥ ५३८ ॥ > वयस्येति । हे वयस्य ! विश्वोपकारिषु सर्वजनोपकारकर्तृषु सदौषधप्रयोगादिभिरिति भावः । वैद्येषु अवद्यानि दूषणानि न कलयेथाः दूषणानां वृथारोपं मा कुर्वित्यर्थः ॥ २३१ ॥ 2 विश्वोपकारित्वमेवाह-मस्ते इति । रोगिण इति शेषः । मस्ते शिरसि दुःसहा सोढुमशक्या या वेदना रोगोत्पन्नं दुःखं तया कवलिते ग्रस्ते सति, खरे शब्दे च अन्तर्गलं कण्ठमध्ये एव मने लीने सति स्फुटतया कण्ठाद्बहिरप्रकटे संतीत्यर्थः । तनौ देहे च ज्वरो रोगविशेषः स एव पावकोऽभिस्तेन तप्तायां सत्यां तत एव हृषीकाणां चक्षुरादीन्द्रियाणां व्रजे समुदाये तान्ते निम्नगतत्वेन सम्यग्दर्शनाद्यक्ष मे संपन्ने च सति वन्धूनां मातृ-पितृ-भ्रातृ-पुत्रादिखजनानां जने समुदाये दूने दुःखिते च सति अत एव कृतं प्रलपनं शोको येन तथाभूते च सति पुनः धैर्य विधातुमुत्पादयितुं कलितं संपादितमामयानां रोगाणां प्रशमनं शान्तिर्येन तस्मात् वैद्यात् परोऽन्यः पुरुषः कः शक्तः समर्थः विद्यते ? अपि तु कोऽपि नास्तीत्यर्थः ॥ ५३९ ॥ १ 'न कल्पयेथाः '. २ ' दुस्तर' ३ 'ग्लाने'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331