Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
विश्वगुणादर्शचम्पू:- [दिव्यक्षेत्रादिअथ दिव्यक्षेत्रादिवर्णनोपसंहारः ५२.
सर्वाणि दिव्यक्षेत्राण्यवलोक्य साञ्जलिबन्धं कृशानुमुद्दिश्य
गङ्गाझरीपरिचितानि जगन्निदानम् __रङ्गादिधामसु चिरात्कृतसन्निधानं ।। विश्वं खतो विशदमेव विलोकमानं
वन्दख वस्तु वरदार्तिहराभिधानम् ॥ ५८१ ॥ कृ०-नन्वत्र तृतीयचरणार्थो न मह्यं रोचते ॥ २५२ ॥ विलोचने विभोर्यस्य विख्याते पुष्पवत्तया ॥
साक्षात्कर्तुं स्फुटं सर्व स शक्नोति ? कथं हरिः ॥ ५८२ ॥ गङ्गेति । गङ्गायाः झर्या प्रवाहेण परिचितौ समाश्रितौ अङ्गी चरणौ यस्य तत्, पक्षे गङ्गाझा परिचिता सततनिवासरूपेणाश्रिताः अङ्ग्रयः शिफा इव अङ्ग्यः जटा इत्यर्थः । यस्य तत् इति च, जगतो विश्वस्य निदानमादिकारणं उत्पादकमिति यावत् । अत एव विश्वं वसृष्टं निखिलं जगत् स्वत एव विशदं सुप्रसन्नं यथा भवति तथा विलोकमानं रङ्गादिधामसु श्रीरङ्ग-द्वारावती-जम्बूकेश्वरप्रभृतिषु पुण्यक्षेत्रेषु चिरात् बहुकालपर्यन्तं कृतं संनिधानं सामीप्यं येन तथाभूतं अत एव वरदानि इच्छितफलप्रदानि आर्तिहराणि तापत्रयादिपीडापरिहराणि च अभिधानानि हरि. श्रीकृष्ण-हरशिव-साम्बादीनि नामानि यस्य तत् वसति निखिलप्राणिनां मनसि इति वस्तु निखिलप्राणिमात्रान्तर्यामिरूपमिति यावत् । 'वस निवासे' इति धातोः “वसे. स्तुन्" इत्यौणादिकस्तुन् प्रत्ययः । परमात्मरूपं वन्दख अभिवादय । हे कृशानो! त्वमिति शेषः ॥ ५८१ ॥
अत्रेति । अत्र श्लोके तृतीयचरणस्य 'विश्वं खतः' इत्यादेः अर्थः खत एवं जगदवलोकनकर्तृत्वरूपः मह्यं न रोचते ॥ २५२ ॥
विलोचन इति । यस्य विभोः प्रभोः विलोचने द्वे नेत्रे, अत्र द्विवचनेन तृतीयनेत्राभावः सूचितः । पुष्पं तदाकारो दृष्टिप्रतिबन्धकरः कनीनिकायां जायमानो रोगविशेषः अस्ति ययोस्ते तयोर्भावस्तत्ता तया, "पुष्पं विकास आर्तवे । धनदस्य विमाने च कुसुमे नेत्ररुज्यपि ।” इति हैमः । पुष्पवन्तौ चन्द्र-सूर्यौ तद्रूपेण चेति । विख्याते प्रसिद्ध स्तः । स हरिः विष्णुः, न तु हरः, तस्य तृतीयलोचनस्य विद्यमानखादित्यर्थः । सर्वं विश्वं साक्षात् प्रत्यक्षं स्फुटं कर्तुं स्पष्टतया द्रष्टुं कथं शक्नोति समर्थो भवति ? वस्तुतस्तु 'विलोचने विख्याते पुष्पवत्तया' इत्युपलक्षणम् । तेन श्रोत्रे दिशः, पादौ भूमिः, उदरमाकाशः, इत्यादि यथायथमूह्यम् । तेन च विश्वव्यापकतोक्ता । ततश्च य एवं तद्रूपतया व्यापकः स हरिः स्वस्मात् विश्वं पृथक् द्रष्टुं कथं शक्नोतीति प्रश्नाभिप्रायः ॥ ५८२ ॥
For Private And Personal Use Only

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331