Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
विश्वगुणादर्शचम्पू:
[ यामुनतीर्थाश्रमिणौ रामानुजमुनिर्मुकुन्दश्च ॥ आद्यं त्रिवेणुधरमधिकमन्यदन्ताद्यमेकवेणुधरम् ॥ ५८४ ॥ कटाक्षलहरी मुहुः कवलितामृतस्तोमया विलोचनयुगश्रियं (या) विवृतसर्वदानव्रतम् ॥ शुकादिभिरुपासितं शुभचरित्रभाजो जनाः
समस्तभयवारणं शरणयन्ति नारायणम् ॥ ५८५ ॥ नाहं नापि च मत्सुतो न च सुरास्सर्वे अभी तत्त्वतो ध्यानादौ च सचेतसो मुनिगणा जानन्ति विष्णोः पदम् ॥ इन्धन्नाभिसरोजशायिपृथुलखास्तारमाकर्णयन्
शेते पन्नगसार्वभौमशयने श्रीपद्मनाभः श्रिया ॥ ५८६ ॥
[ दिव्यक्षेत्रादि
इतः परं ' यामुनतीर्थ - इत्यादयो द्वादश श्लोकाः अस्मत्संपादितादर्शपुस्तकेऽन्येषु पुस्तकेषु च नैवोपलभ्यन्ते । किन्तु अत्रत्यमुद्रितैकस्मिन् पुस्तके एव दृश्यन्ते । अत एव ते रामानुजीयमतपक्षपातिना केनचित्प्रक्षिप्ता एवेति भाति, तेषु कतिचिदतीव विसंबद्धाः पूर्वापरसंबन्ध र हिताश्च कतिचिच सुसंबद्धाः इति ये प्रतीतास्ते एवात्र मूले निवेशिताः यथामति व्याख्याताश्चापि -- यामुनेति यामुनतीर्थेन एतन्नामकगुरुणा प्रोक्तः उपदिष्ट इति यावत् । आश्रमः चतुर्थः संन्यासः अस्यास्तीति तदाश्रमी, यमुनैव यामुनं तच्च तत्तीर्थं च यामुनतीर्थं तत्र तत्संनिधावित्यर्थः । आश्रम : निवासः यस्यास्तीति तदाश्रमी तौ, एकः रामानुजमुनिः अन्यश्च मुकुन्दः श्रीकृष्णः । द्वयोस्तारतम्यमाह - आयं प्रथमं श्रीरामानुजरूपं त्रिवेणुधरं संन्यासाश्रमित्वात् त्रिदण्डधरं अत एव अधिकं अन्यस्मात् श्रेष्ठं, अन्यन्मुकुन्दात्मकं च एकस्यैव वेणोः वाद्यविशेषस्य धरं धारकं अत एव अन्तः लुप्तः आद्य इति शब्दो यस्मात् तथाभूतं पूर्वस्मान्न्यूनमित्यर्थः । वस्तुतस्तु अन्तः प्रलयः आद्यः सर्गश्च अर्थाज्जगतः तौ यस्मात् तत् एतदुपलक्षणं स्थितेरपि । तेन जगतः सर्ग-स्थितिलय कर मित्यर्थः ॥ ५८४ ॥
>
कटाक्षेति । कटाक्षाणां अपाङ्गदर्शनानां लहरीभिः मुहुर्वारंवारं कवलितः प्रस्तः अमृतस्य स्तोमः निधिर्यया तया विलोचनयोर्नेत्रयोर्युगस्य द्वयस्य श्रिया विवृतं प्रकटीकृतं सर्वदानस्य भक्तेभ्यः सर्वस्वार्पणस्य व्रतं येन तं शुकादिभिः, आदिशब्देन नारद सनकादिमुनिग्रहणम् । मुनिभिः उपासितं सेवितं, समस्तानां सकलानां भयानां वारणं निवारणं यस्मात् तं नारायणं शुभानि कल्याणावहानि चरित्राणि भजन्तीति तद्भाजः सत्कर्मकर्तार इत्यर्थः । जनाः शरणयन्ति शरणं कुर्वन्ति, स्वरक्षकं ज्ञात्वा भजन्तीत्यर्थः ॥ ५८५ ॥
नाहमिति । इन्धत् दीप्तिमत् यन्नाभिसरोजं नाभिकमलं तस्मिन् शायिनः निवासिन: अर्थाद्ब्रह्मणः पृथुलं महान्तं उच्चैरुच्चारितमित्यर्थः । स्वास्तारं वेदमन्त्रयुक्तं
For Private And Personal Use Only

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331