Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 313
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यक्षेत्रादि विश्वगुणादर्शचम्पू:- दलितदुरितजाले दन्दशूकेन्द्रशैले कवलितभवगन्धे कालिमा कश्चिदिन्धे ॥ कुवलयमुदहारी कुञ्जरेन्द्रोपकारी __ मुनिहृदयविहारी मुक्तसंतोषकारी ॥ ५९० ॥ ध्यातं योगिकलाविलासरसिकैः शीतं दयास्रोतसा __ ख्यातं मौलिषु कृत्रिमेतरगिरां वातंधयक्ष्माधरे ॥ जातं धाम पराकरोतु जगतामातङ्कमकरितम् वेतण्डेन्द्रविपद्विमोचनचणं क्रीतं रमाविभ्रमैः ॥ ५९१ ॥ वंशश्च तत्र संभव उत्पत्तिर्यस्य तेन भवता त्वया, दशाननवधेच्छयेति शेषः । शरो बाण एव आशीविषः सर्पः यो मुक्तः खशरासनात्प्रेरितः सः संवर्ते प्रलये "संवर्तः प्रलयः कल्पः" इत्यमरः । उदिता उदयं प्राप्ता ये सप्त सप्तसंख्याकाः सप्तयोऽश्वा येषां ते "घोटके वीति-तुरग-तुरङ्गाश्व-तुरङ्गमाः । वाजि-वाहार्व-गन्धर्व-हय-सैन्धव. सप्तयः।" इत्यमरः । सप्तसप्तयः सूर्याः तेषां पटली समुदायः तया सब्रह्मचारी सदृशः सन् , हठात् प्रसह्य क्षितिजापहारिणः सीतापहर्त रावणस्य हृदयक्रीडायां रत. मासक्तं मारुतं प्राणवायुं आखाद्य भक्षयित्वा, रावणप्राणमपहृत्येत्यर्थः । तेन रावण. हृत्स्थवाताखादनेन यः संतोषस्तस्माद्धेतोः कथाभिधानस्य श्रीरामचरितकथनस्य कुतुकं कौतुकं यस्यास्तीति तत्कुतुकी सन् , महीं पृथ्वी जगाहे लुलोड इति अहं मन्ये । स एवायं सांप्रतं रामानुजरूपेणावततारेति मन्ये इत्यर्थः ॥ ५८९ ॥ दलितेति । दलितं विनाशितं दुरितानां पापानां जालं समूहो येन तस्मिन् कवलितः भक्षितः विनाशित इति यावत् । भवस्य संसारस्य गन्धः संबन्धो येन तस्मिन् "गन्धो गन्धक आमोदे लेशे संबन्ध-गर्वयोः।” इति यादवः । दन्दशूके. न्द्रशैले शेषाद्रौ कुवलयानां कमलानां मुदं हरतीति यथाभूतः कुञ्जरेन्द्रोपकारी गजे. न्द्रोद्धारकः मुक्तानां संतोषं करोतीति तत्कारी अत एव मुनीनां मननशीलानां हृदयेऽन्तःकरणे विहर्तुं शीलं यस्येति तथाभूतः कश्चिदलौकिकः कालिमा नीलिमा श्रीनिवासरूपः इन्धे प्रकाशते ॥ ५९० ॥ ध्यातमिति । दयायाः स्रोतसा प्रवाहेण शीतं अत एव योगिनां कलानां ध्यान-धारणादीनां ये विलासा आनन्दास्तेषु रसिकैः, सततं योगाभ्यासासक्तचित्तैरित्यर्थः । ध्यातं कृत्रिमेतरगिरां वेदवाणीनां मौलिषु उपनिषत्सु ख्यातं प्रसिद्धं वेतण्डेन्द्रस्य गजेन्द्रस्य विपद्विमोचनेन ग्राहकृतदुःखनिवारणेन वित्तं ख्यातमिति तचणं "तेन वित्तः-" इति चणप् प्रत्ययः । रमाया लक्ष्म्याः विनमैर्विलासैः क्रीतं वशीकृतं वातंधयक्ष्माधरे शेषशैले जातमुत्पन्नं, वातंधयेत्यत्र “वातं-शुनी-तिल-" इत्यादिवार्तिकेन वातोपपदस्य धेटः खश् “अरुर्द्विषद्-" इत्यादिना मुमागमश्च । धाम तेजः अङ्कुरितमुत्पन्नं जगतां आतङ्क तापं "रुक्-ताप-शङ्काखातङ्कः” इत्यमरः । पराकरोतु दूरीकरोतु ॥ ५९१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331