Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 316
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - वाक्यम् ५३ ] पदार्थचन्द्रिकाटीकासहिता । ३१३ इति श्रीपञ्चमतभञ्जननिबन्धन विख्याततातयज्वभागिनेयवाजपेय सार्वप्रष्टाप्तोर्यामा दियाज्यात्रेयवंशमौक्तिकीभवदप्पय्यायतनूभवश्लेष-यमकचक्रवर्तिरघुनाथाचार्यतनयस्य श्रीनिवासकृपातिशयसंविदितनयस्य सीताम्बा गर्भसंभवस्य श्रीमत्काञ्चीनगरवास्तव्यस्य महाकविश्रीमद्वेङ्कटाध्वरिणः कृतौ विश्वगुणादर्शचम्पूः समाशिमगात् ॥ इति विशदमनीषाशालिना यज्वना वा विरचित इह काव्ये वेङ्कटाचार्यनान्ना ॥ कृशतरमतियुक्तेनापि टीका कृतेयं सुगुण-सुकरुणास्तां पण्डिता मानयन्ताम् ॥ १ ॥ श्रेयः संप्रति संचिनोतु भगवान् श्रीमद्गणेशः प्रभु दूने देवगणे द्विजऋतुचये ध्वस्ते च दैत्यार्तितः ॥ आविर्भूय तदातदार्तिहरणौत्सुक्याद्भवानीपते दैत्येन्द्र परिभूय सिन्दुरमथो देवान् व्यधान्निर्वृतान् ॥ २ ॥ नमामि कमलालयापरिचिताङ्गिमानन्ददं प्रभुं मुनिजनस्तुतं भुजगशायिनं श्यामलम् ॥ करोतु जनमङ्गलं हरतु पापसंघं नृणां स्वधर्मरतिमन्तरे जनयतु स्वभूः सर्वदा ॥ ३ ॥ जयति भगवान् भर्ता देव्याः शिवः शिवदः सतां श्रुतिपथमथारुन्धन् सर्वे यदा सुगतादयः ॥ यतिवरतनुं धृत्वा बुद्धान् विजित्य च यस्तदा श्रुतिहितमथ संविन्मार्ग निरञ्जनमन्वधात् ॥ ४ ॥ अस्ति कृष्णापगासङ्गात् पावनी लोकरञ्जनी । राजधानी सुविख्याता पट्टवर्धनभूभृताम् ॥ ५ ॥ कुरुन्दवाटनगरं कीर्तिमत्तत्र विद्यते ॥ श्रीमान् गणपतिस्तस्य पुरस्याधिपतिर्महान् ॥ ६ ॥ तस्याश्रये पुरातिष्ठद्योगिवंशावतंसकः ॥ गणेशपण्डितः प्रज्ञाशाली सत्कर्मपेशलः ॥ ७ ॥ तत्सुतो ह्यकरोदेतद् व्याख्यानं बालतुष्टये ॥ इन्दुनेत्रवसुक्षोणी मिते (१८२१ ) शाके ह्यपूरि तत् ॥ ८ ॥ इति श्रीमत्पदवाक्यपारावारीणश्रीमद्योगिकुलावतंसश्रीमद्गणेशसूरिसूनुना बालकृष्णशर्मणा विरचिता पदार्थचन्द्रिकाख्या श्रीविश्वगुणादर्शचम्पूव्याख्या समाप्तिमगात् ॥ २७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331