Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - वर्णनोपसंहारः ५२] पदार्थचन्द्रिकाटीकासहिता । उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् ॥ शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ||५८७|| कपर्दिमतकर्दमं कपिलकल्पनानाटकैः कुमारिल कुभाषितैर्गुरुनिबन्धनग्रन्थिभिः || ३०९ तथागतकथा शतैस्तदनुसारिजल्पैरपि प्रतारितमिदं जगत्प्रगुणितं यतीन्द्रोक्तिभिः ॥ ५८८ ॥ सावित्रान्वयसंभवेन भवता मुक्तश्शराशीविषः संवर्तोदितसप्तसप्त (प्ति)पटलीसब्रह्मचारी हठात् ॥ आखाद्य क्षितिजापहारिहृदयक्रीडारतं मारुतं तत्संतोष कथाभिधानकुतुकी मन्ये जगाहे महीम् ॥ ५८९ ॥ निजस्तवं आकर्णयन् शृण्वन् पन्नगसार्वभौमशयने श्रीशेषशयने श्रीपद्मनाभः विष्णुः श्रिया लक्ष्म्या सह शेते खपिति कीदृशं स्वास्तारं विष्णोर्भगवतः पदं अहं न जानामि, मम सुतः पुत्रोऽपि न जानाति, किंच अमी शकादयः सुरा देवा अपि न जानन्ति, किंतु ध्यानादौ तद्रूपैकतानचित्तवृत्त्यादौ आदिशब्देन धारणा-समाध्यादेग्रहणम् । सचेतसः सावधानान्तःकरणाः मुनिगणा एव तत्त्वतो जानन्तीति ॥ ५८६॥ उपवीतिनमिति । उपवीतिनं यज्ञोपवीतयुक्तं, रामानुजीय संप्रदाये संन्यासि - नामपि यज्ञोपवीत धारणविधानात् । ऊर्ध्वपुण्ड्रेण भाले ऊर्ध्ववर्तिगोपीचन्दनतिलकेन युक्तं त्रिजगतः त्रैलोक्यस्य पुण्यफलं मूर्तिमत्, त्रयो दण्डाः " वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥" इत्यनेन संन्यासिनो विहितास्ते हस्ते स्वाधीना यस्य सः तं शिखया शेखरिणं शिरोभूषणयुक्तं शरणागतानां सार्थवाहं धनिकं अभीष्टपूरकत्वात् । यतीनां संन्यासिनां पतिं श्रीरामानुजं ईडे स्तौमि । एतद्वर्णनेन श्रीरामानुजयतीनां शिखात्यागो नोक्त इति भाति ॥५७७॥ कपर्दीति । कपर्दिनः शिवस्य यन्मतं शैवागमप्रोक्तं जटा - कौपीना दिधारणरूपं यथाशास्त्राचारराहित्यादिकं च तेन कर्दमं कर्दमसदृशकालुष्ययुक्तं, एतद्वर्णनं केवलमेकदेशि पक्षपातयुक्तं तत्त्वविवेकशून्यं चेति ज्ञेयम् । कपिलस्य मुनेः कल्पना नाटकैः श्रुत्यादिप्रामाण्याङ्गीकारपूर्वकं केवलं मनः कल्पितलोकमोहकैः सांख्यशास्त्रवचनरूपैः, कुमारिलस्य मीमांसाशास्त्रप्रवर्तकस्य कुत्सितैर्भाषितैः, ईश्वरास्तित्वानङ्गीकारात् । अत एव गुरूणि महान्ति बन्धनानि पुनः पुनर्जन्म-मरणादिरूपाणि येभ्यस्तथाभूतैर्ग्रन्थिभिः तत्सदृशैरित्यर्थः । तथागतस्य बुद्धस्य " सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः” इत्यमरः । कथाशतैः, तदनुसारिणां बुद्धमतानुयायिनां जस्तैर्भाषणैश्चापि इदं जगत् प्रतारितं वञ्चितं, तत् यतीन्द्रस्य रामानुजस्य उक्तिभिः उपनिषद्भाष्यादिग्रन्थरूपाभिः प्रकर्षेण गुणितं व्यवस्थापितम् ॥ ५८८ ॥ सावित्रेति । हे राम ! इति शेषः । सवितुः सूर्यस्यायं सावित्रः स चासावन्वयो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331