Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 310
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनोपसंहारः ५२ ] पदार्थचन्द्रिकाटीकासहिता । ३०७ वि०-सूर्यचन्द्रलोचनतया सचमत्कारं चक्रधरं स्तुवानीय तुभ्यं न कुप्यामि । शृणु तावदिदम् ॥ २५३ ॥ श्रेयस्तोयदसंप्रदायरसिकच्छायः सहायः श्रिय श्चिन्तारत्नसपत्नवीक्षितलवश्चक्रीयतामायतम् ॥ यो विश्वेन हि गात्रवान् हिमरुचाप्युष्णांशुना नेत्रवान् सुग्रीवेण च मित्रवान् कुश-लव-ब्रह्मादिभिः पुत्रवान् ५८३ सखे ! संक्षिप्य वक्ष्यमाणं सारभूतमिममर्थ गृहाण ॥ २५४ ॥ सूर्य-चन्द्रेति । सूर्य-चन्द्रलोचनतया तद्रूपेणेत्यर्थः । सचमत्कारं अर्थद्वयबोधकशब्दप्रयोगसहितं यथा तथा चक्रधरं विष्णुं स्तुवानाय तस्य स्तुतिं कुर्वते तुभ्यं न कुप्यामि । "क्रुध-द्रुह-" इत्यादिना चतुर्थी । वस्तुतो दूषणाभावादित्यर्थः ॥२५३॥ श्रेय इति । तोयदस्य मेघस्य संप्रदायः रीतिः वर्णरूप इत्यर्थः । तस्मिन् रसिका छाया कान्तिर्यस्य सः, पक्षे तोदयानां संप्रदायो मार्गः व्योमरूपः स एव रसिकाः स्निग्धाः छाया इव छायाः केशाः यस्य सः भगवान् व्योमकेशः शिव इत्यर्थः । श्रियः लक्ष्म्याः , अणिमाद्यष्टविधैश्वर्यस्य च "लक्ष्मी-सरखती-धा (?) त्रिवर्गसंपद्-विभूति-शोभासु । उपकरणवेशरचनाविधानेषु च श्रीरिति प्रथिता।" इति व्याडिः । सहायः पतिः, पोषकश्च अत एव चिन्तारत्नं चिन्तामणिः तस्य सपत्नः सदृशः वीक्षितस्य अवलोकनस्य लवः लेशः कटाक्ष इत्यर्थः । यस्य सः भक्तभ्य इष्टफलप्रद इत्यर्थः । आयतं विस्तृतं श्रेयः चेक्रीयतां भृशं करोतु । करोतेयडि "रीङ् ऋतः" इति रीङादेशः । कथंभूतः सः । यः प्रभुः विश्वेन गात्रवान् देहवान् “आत्मा वा इदमेक एवाग्र आसीत्" “स भूमि विश्वतो वृत्वाऽत्यतिष्ठदशाङ्गुलम् । पुरुष एवेदं सर्वे” इत्यादिश्रुतिभ्यः । हिरवधारणार्थकः । हिमा शीतला रुक् कान्तिर्यस्य सः तेन चन्द्रेण, अपिः समुचायकः । उष्णाः अंशवः किरणाः, ज्वालाश्च यस्य तेन सूर्येण, अग्निना चापि नेत्रवान चन्द्रसूर्यनेत्रो विष्णुः, अग्निनेत्रः शिवश्चेत्यर्थः । सुप्रीवेण एतनामकवानरेण मित्रवान् स्नेहसंपादकः, रामावतारे इत्यर्थः । कुशः लवश्व, एतौ रामावतारोत्पन्नौ । ब्रह्मा च ते आदयः मुख्याः येषु इन्द्रादिषु तैः, पक्षे कुशलं कल्याणं वान्ति प्राप्नुवन्तीति कुशलवाः अखण्डकल्याणसंपन्ना इत्यर्थः । ये ब्रह्मादयः आदिशब्देन विष्णु-शकादिग्रहणम् । तैश्च पुत्रवान् पुत्रयुक्तः। एतादृशमहासामर्थ्यसंपन्नः शिवो विष्णुश्चेति बोध्यम् ॥ ५८३ ॥ सख इति । संक्षिप्य सर्वमप्येकीकृत्य अत एव सारभूतं वक्ष्यमाणं अनुपदमेव कथ्यमानं अर्थमभिधेयं गृहाण शृणु ॥ २५४ ॥ १ 'स्तुवते'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331