Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [राजसेवकविरुद्धमिदं भाषितं यद्वेदापाये सति न यज्ञाभ्युदयः स्यादिति ।। वि०-अवगच्छ तावदेतदविरुद्धमेव ॥ २४९ ॥ नाम्नायज्ञो मखे यस्मिन् यजमानतया स्थितः ॥ तत्समागमतः सोऽपि नाम्ना यज्ञो भवेन्न किम् ? ॥ ५७८ ॥
अथ राजसेवकवर्णनम् ५१.
कृ०-पुनरन्यतो दृष्ट्वा सोपहासम्पश्यैतान् राजसेविनः परित्यक्तलोकद्वयसौख्यान् स्पष्टमान् पुरुषान् ॥ २५० ॥ ध्यन् , तर्हि तदा उर्वीतलं भूतलं निर्वेदवादं वेदपाठरहितं अत एव च निर्वितानं यज्ञरहितं "ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके।" इत्यमरः । अभविष्यत् किल । अत्र “लिङ्गिमित्ते लुङ् क्रियातिपत्तौ' इत्यनुवर्तमाने "भूते च" इति कियाया अनिष्पत्तिरूपेऽर्थे लङ् । हन्तेति खेदे । “वेदा हि यज्ञार्थमभिप्रवृत्ताः" इत्यादिवचनप्रामाण्याद्वेदानां यज्ञार्थत्वात्तदभावे यज्ञानामध्यभावः ततश्च भूमौ अन्नाद्यनुत्पत्तेरतीव हानिः स्यादिति भावः । तदुक्तम्-"यज्ञाद्भवति पर्जन्यः पर्जन्यादन्नसंभवः।” इति । एतदभिप्रायमेव भगवानप्याह गीतायाम्-"सहयज्ञाः प्रजाः सृष्टवा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ।” इति ॥ २४८ ।।
विरुद्धमिति । वेदानां अपाये नाशे सति यज्ञानां अभ्युदयः उत्पत्तिः यथावि. ध्यनुष्ठानमित्यर्थः । न स्यादिति यत् इदं विरुद्धं भाषितं कथितम् । स्मृत्यादावपि तद्विधानादिति भावः ॥ २४८ ॥
अवगच्छेति । एतत् वेदाध्यापनाभावे निर्वेदवादं निर्वितानं भूतलमित्याद्यस्मत्प्रतिपादितमेव अविरुद्धं यथाथै, तत्पुनरिति शेषः । अवगच्छ जानीहि ॥२४९॥
नाम्नेति । यस्मिन् मखे यज्ञे आम्नायज्ञः वेदवित् यजमानतया यष्ट्ररूपेण स्थितः न भवेत् , तस्यावेदज्ञयजमानस्य समागमतः संसर्गाद्धेतोः सः यज्ञोऽपि न विद्यते आम्नायज्ञो वेदवेत्ता यस्मिन् तथाभूतः वेदविद्यजमानरहित इत्यर्थः । अथवा स यज्ञः नाना संज्ञामात्रेणैव, न तु विधिना, वेदमन्त्रपाठाभावात् । न भवेत् किम् ? अपि तु भवेदेवेति कृत्वा जगतो निर्वेदवादत्वेऽतीव महती हानिः स्यादिति भावः ॥ ५७८ ॥
पश्यति । परित्यक्तं लोकद्वय स्य ऐहिकामुष्मिकरूपस्य, तत्र यथाविधि कर्मानुष्ठानाभावात्परलोकस्य सततराजकार्यपरत्वाद्यथाकालं भोजन-सुखनिद्राद्यभावादितरलोकोपयोगाभावात्तत्तिरस्कारभाजनत्वाचास्यापि लोकस्येति बोध्यम् । सौख्यं यैस्तान् अत एव स्पष्टं अभिव्यक्तं मौख्य मूर्खत्वं येषां तान् राजसे विनः पुरुषान् पश्य २५०
For Private And Personal Use Only

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331