Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०३ वर्णनम् ५०] पदार्थचन्द्रिकाटीकासहिता। तथाहिसूत्रं पाणिनिबद्धं कण्ठे कलयन् समुद्रहति सुदृशम् ॥ वर्णादीनां धर्मान्बुद्धा विधिवअँधः प्रयुङ्क्तेऽसौ ॥ ५७५ ॥ अथ वैदिकवर्णनम् ५०. कृ०-अस्त्विति विमानमन्यतश्चालयन् पुरोऽवलोक्यसखे ! पश्य छान्दसानर्थचापलेन विक्रीयमाणाम्नायान् ॥ २४६ ॥ आः कष्टमपहृष्टाः शिष्टा अपि वित्तचापलाविष्टाः ॥ अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिम् ॥ ५७६ ॥ वि०-वयस्य मैवं वादीः ॥ २४७ ॥ नाध्यापयिष्यन् निगमान् श्रमेणोपाध्यायलोका यदि शिष्यवर्गान् ॥ निर्वेदवादं किल निर्वितानमुर्वीतलं हन्त ! तदाभविष्यत् ॥ ५७७ ॥ सूत्रमिति । पाणिना हस्तेन निबद्धं त्रिसूत्र्यादिकरणेन निर्मितं, पाणिनिना ऋषिणा बद्धं विरचितं च सूत्रं, यज्ञोपवीतरूपं ग्रन्थरूपं च कण्ठे गले, मुखे च कल. यन् उपनयनविधिना, उच्चारणरूपेण च धारयन् सन् , अत्रोभयार्थेऽपि "लक्षणहेत्वो:-" इत्यादिना हेतौ शतृप्रत्ययः । तेन सूत्रस्य यथाविधिधारणाद्धेतोरित्यर्थः । अन्यथाऽधिकाराभावात् । सुदृशं स्त्रियं, सुष्टु ज्ञानं च, अत्र दृशिर्ज्ञानार्थकः । समुद्वहति पाणिग्रहणविधिना स्वीकरोति, प्राप्नोति च । ततः असौ बुधः पण्डितः वर्णादीना, ब्राह्मणादीनां आदिशब्देन ब्रह्मचर्याद्याश्रमग्रहणम् । अक्षरादीनां च, अ. त्रादिपदेन शब्दादिग्रहः । धर्मान् अध्ययनाध्यापनादीन् ह्रख-दीर्घ-पुंल्लिङ्ग-स्त्रीलिङ्गादींश्च बुड्डा ज्ञात्वा विधिवद्यथाविधि प्रयुके आचरति, उच्चारयति च ॥ ५७५॥ सख इति । छान्दसान् केवलं वेदमन्त्रपाठकान् , न त्वर्थज्ञान् अर्थचापलेन द्रव्यलोभेन विक्रीयमाणाः मासिकादिवेतनग्रह्णन अध्याप्यमानाः आनायाः वेदा यैस्तान् पश्य ॥ २४७ ॥ एतदेव प्रपञ्चयति-आ इति । वित्तचापलेन धनलोभेन आविष्टाः कृतप्रवेशाः, धनार्जनलालसायुक्ता इत्यर्थः । अत एव अप्रहृष्टाः संतोषरहिताः शिष्टा अपि वैदिकाः मासि मासि प्रतिमासं भृतिं वेतनमादाय चिराय संततं वेदान् अध्यापयन्ति शिक्षयन्ति । आः कष्टमिति खेदे ॥ ५४६ ॥ - नाध्यापयिष्यन्निति । उपाध्यायलोकाः अध्यापकजनाः शिष्यवर्गान् निगमान् वेदान् श्रमेण खोदरनिर्वाहार्थभृतिग्रहणयत्नेन यदि नाध्यापयिष्यन् नाशिक्षयि १ कचित् 'कण्ठे' इति पदं न दृश्यते. २ 'धनचापलेन'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331