Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 304
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृतदुरितारे कनिष्ठिकाया चापि नयेऽवगाह || -वर्णनम् ४९] पदार्थचन्द्रिकाटीकासहिता । ३०१ वि०-मह्याभरणेषु वैयाकरणेषु भवान् मा म कलयतु दोषशकलम् ॥ २४३ ॥ यतःकृतदुरितनिराकरणं व्याकरणं चतुरधीरधीयानः ।। बुधजनगणनावसरे कनिष्ठिकायां परं जयति ॥ ५७१ ॥ पातञ्जले विष्णुपदापगायाः पातं जले चापि नैयेऽवगाहम् ।। आचक्षते शुद्धिदाँ प्रसूतेरा च क्षते रागमधोक्षजे च ॥ ५७२ ।। अपि चनृणामनभ्यस्तफणाभृदीशगिरां दुरापा बुधराजगोष्ठी ॥ अबुद्धचापश्रुतिपद्धतीनां युद्धक्षमेवोढ़तयोद्धृसार्था ॥ ५७३ ॥ महता श्रमेण प्रयत्नेन पक्त्वा निर्माय मितं अल्पं बलं येषां तान् अत एव मन्दः अग्निर्जाठरो येषां तान् अत एव च आघ्रातुं गन्धोपादानं कर्तुमपि, किमुत भोक्तुं, अक्षमान् असमर्थान् जनान् अनुरुन्धते अनुसरन्ति । तत्तुल्या इत्यर्थः ॥ ५७० ॥ महीति । मह्याः पृथिव्याः आभरणेषु भूषणरूपेषु वैयाकरणेषु भवान् दोषस्य शकलं खण्डमपि, किमुत संपूर्ण दोषं, मा स्म कलयतु ॥ २४३ ॥ मह्याभरणत्वमेवाह-कृतेति । कृतं दुरितानां पापानां निराकरणं निवारणं येन तत्तथोक्तं, वेदाङ्गत्वादिति भावः । तदुक्तम् पाणिनीयशिक्षायाम्-"शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।" इति । अत एव भगवान् पतञ्जलिरपि महाभाष्ये आह-"रक्षोहागमलध्वसंदेहाः प्रयोजनम्, एकः शब्दः सम्यग्ज्ञातः सम्यक् प्रयुक्तः खर्गे लोके कामधुग् भवति" इति । व्याकरणं शास्त्रं चतुरा धीर्बुद्विर्यस्य सः पुरुषः अधीयान: अभ्यस्यन् सन् , हेतौ शतृप्रत्ययः । बुधजनानां पण्डितजनानां गणनावसरे संख्यानसमये कनिष्ठिकायां परमत्यन्तं जयति सर्वोत्कर्षण वर्तते । अङ्गुलिभिः पण्डितगणने प्रथमं वैयाकरण एव गण्यते पश्चात् नैयायिका दय इति भावः ॥ ५७१॥ पातअल इति । पतजले: एतन्नामकमुनेः शेषावतारस्य अयं पातजलस्तस्मिन् , तेन रचिते इत्यर्थः । नये व्याकरणमहागाध्यरूपे शास्त्रे पातं प्रवेशं अभ्यासमित्यर्थः । तथा विष्णुपदापगायाः गङ्गायाः जले चापि अवगाहं स्नानं, अधोक्षजे भगवति विष्णौ च राग भक्तिं च आ प्रसूतेः जन्मारभ्य आ क्षतेर्मरणपर्यन्तं च शुद्धिं क्रमेण वाचिकी शारीरी मानसीं च पवित्रतां ददाति समर्पयतीति तथाभूतं आचक्षते कथयन्ति । पण्डिता इति शेषः ॥ ५७२ ॥ किंच नृणामिति । अनभ्यस्ता अनधीता फणाभृतां सर्पाणां ईशस्य शेषाव १ 'त्रय्या'. २ 'कनिष्ठिकामेव चैष रअयति'. ३ 'च'. ४ 'शुद्धिमथा प्रसूते'. ५ रित्थमधोक्षजे च'. ६ वोचतयोधसार्था'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331