Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 303
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० विश्वगुणादर्शचम्पू:- [वैयाकरणझोऽन्तः शश्छोटि शेषो ध्यसखि ससजुषो रुविरामोऽवसानम् छे चेति व्यर्थवाचः सदसि यदि सतां शाब्दिकाश्चेद्बुधाः स्युः ।। किं तैरेवापराद्धं ? नट-विट-गणिकानृत्य-हस्त-प्रचारै स्तोधी तोधी तधीति त्तकिट तकिट धिक् ताहधिक् तत्तकारैः ५६९ किंचसूत्रैः पाणिनिकीर्तितैर्बहुतरैर्निष्पाद्य शब्दावलिम् वैकुण्ठस्तवमक्षमा रचयितुं मियाश्रमाः शाब्दिकाः ॥ पक्त्वान्नं महता श्रमेण विविधापूपाग्र्यसूपान्वितम् मन्दाग्नीननुरुन्धते मितबलानाघ्रातुमप्यक्षमान् ॥ ५७० ॥ "वृद्धिरेचि" "यचि भम्" "दाधा वदाप्" "नाज्झलौ" इत्युक्तप्रकारान् एते वैयाकरणाः कतिचित् कटून् कठोरत्वात् श्रवणानर्हान् शब्दान् पठन्तः सन्तः दिवसान् नयन्ति गमयन्ति ॥ ५६८ ॥ झोन्त इति । "झोन्तः" "शश्छोऽटि" "शेषो ध्यसखि" "ससजुषोरुः" "विरामोऽवसानम्" "छे च” इत्युक्तप्रकारेण व्यर्था निष्फला वाचो येषां ते शाब्दिकाः वैयाकरणाः सतां पण्डितानां सदसि यदि बुधाः पण्डिताः स्युः, तर्हि तैः प्रसिद्धः नटाः नाट्यकर्तारश्च विटाः जाराश्च गणिका वेश्याश्च तेषां नृत्यं हस्ता हस्तविक्षेपाः प्रचाराः पादविक्षेपाश्च तैः, नटानां नृत्यं, विटानां हस्ताः, गणिकानां पादविक्षेपाश्चेति क्रमेण बोध्यम् । तथा तोश्री तोधीलादिमृदङ्गादिवाद्यशब्दैः किमपराद्धम् ? नृत्यादिकर्तारोऽपि पण्डिताः कुतो न भवेयुरिति प्रश्नाभिप्रायः ॥ ५६९ ॥ सूत्रैरिति । पाणिनिना मुनिना कीर्तितः रचितैः बहुतरैः अष्टाध्यायपरिमितैः सूत्रः सुप्-तिङ्-कृत्-तद्धितादिप्रत्ययविधायकैः “ड्याप्प्रातिपदिकात्" "ल: कर्मणि च-" "तिप्-तसू-झि-" "कर्तरि कृत्" 'तस्यापत्यम्" "अत इञ्" इत्यादिभिः शब्दानां, अत्र शब्दपदं सुप्तिकुभयसाधारणम् । राम-कृष्ण-मुकुन्दादीनां, भवति, एधते, नौमि, स्तौमि, इत्यादितिङन्तानां, वासुदेव-राघवप्रभृतीनां च आवलिं पहिं निष्पाद्य साधयित्वा, वैकुण्ठस्य भगवतो विष्णोः स्तवं स्तुतिं रचयितुं गद्य-पद्यादिचमत्कृतिजनकवचनैः कर्तुं अक्षमाः असमर्थाः, प्रकृति-प्रत्ययसंयोजनेन शब्दसिद्धिज्ञानेऽपि सम्यक् तदर्थानवगमादिति भावः । अत एव मिथ्या व्यर्थ एव श्रमोऽभ्यासो येषां ते तथाभूताः शाब्दिकाः शब्दशास्त्रविदः वैयाकरणा इत्यर्थः । सन्तीति शेषः । एतदेवोपमानेन स्पष्टयति--विविधाः नानाविधाः ये अपूपाः गोधूमादिपिष्टनिर्मिता भक्ष्यपदार्थाः तैः अयं श्रेष्टं सूपादिभिरन्वितं युक्तं च अनं १ अयं लोको मुद्रितपुस्तके एव दृश्यते, अन्यत्रानुपलम्भात् प्रक्षिप्त इति भाति । २ विन्ध्य श्रमाः'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331