Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४६] पदार्थचन्द्रिकाटीकासहिता। २८९
कृ०-नरस्तुतेर्विधातारो न वस्तुत इमे बुधैः ।। ___ श्लाघनीया इति कवीन् शास्त्राध्वन्यो विनिन्दति ॥ ५४६ ॥
वि०-धनचपलसकलपुरुषसाधारणमिदं दूषणमविवेकिभिः कविप्वेव केवलमाधीयते ॥ २३५ ॥ यतःपथैहृद्यतमैः स्तुवन्ति कवयः प्रायेण पृथ्वीपती
नन्ये तान् स्तुवते वचोभिरचमत्कारैरसारैरपि । पद्यारम्भणशक्त्यशक्तिविहितो भेदः कवीनां भव
त्यन्येषां च परं नरस्तुतिकृतो दोषस्तु सार्वत्रिकः ॥५४७॥ यादिकं शाकुन्तल-महावीरचरितोत्तररामचरितादिनाटकरूपं च विधातुः कर्तुः कवेः कालिदास-माघ-भारवि-भवभूत्यादेः, तस्य काव्यस्यैवाङ्गतया यत्किंचिदंशरूपत्वेन कचित् विवाहादिप्रसझे दम्पतीसमागमादिप्रसङ्गे वा, न तु सर्वत्र । यथा रघुवंशे इन्दुमत्याः वर्णनं, कुमारसंभवे भगवत्याः पार्वत्याश्च वर्णनं, सर्वतो वीररसप्रधाने वेणीसंहारनाटके च भानुमत्यादिवर्णनं चेत्यादिकं यथायथमूह्यम् । शृङ्गारः वीरश्च तौ आदी यस्मिन् तदादिकं रस, आदिशब्दात् करुणामृतादेर्ग्रहणम् । रचयतः को दोषो भविता भविष्यति ? नैवायं संप्रदायः आधुनिककवीनामेव, किंतु प्राचीनानामपीत्याह-यत् यस्मात् अत्र लोके कविताशीलैः काव्यकर्तृभिः व्यासः पाराशरः वसुंधराश्रुतिः पृथिव्याः श्रवणेन्द्रियं लक्षणया वल्मीकं तत्र भवो वाल्मीकिश्च तयोग्रन्थादिषु महाभारत-भागवत-रामायणादिपुराणग्रन्थेषु प्रेक्षितोऽवलोकितः पन्थाः कचिदङ्गतया शृङ्गारादिवर्णनरूपः, यथा महाभारते द्रौपद्यादिसमागमवर्णनं, भाग. वते च श्रीकृष्ण-गोपिकारासक्रीडादिवर्णनं, रामायणे सीतावर्णनादिकं च ज्ञेयम् । समाश्रीयते स्वीक्रियते । न तु खकपोलकल्पित इति भावः ॥५४५ ॥
पुनरपि दूषयति-नरेति । नरस्य मनुष्यस्य राजादेः स्तुतेः स्तवस्य विधातारः कर्तारः इमे कवयः, अत एव वस्तुतः तत्त्वतः बुधैः पण्डितैःन श्लाघनीयाःन प्रशंसनीयाः। इति हेतोः कवीन शास्त्राध्वन्यः शास्त्रपथिक: "अध्वनो यत्खौ" इति सूत्रेण 'अलं गच्छति' इत्यर्थे यत् प्रत्ययः। शास्त्रोक्तमार्गेण गन्तेत्यर्थः । विनिन्दति ॥५४६॥
धनेति । धने द्रव्यसंपादने चपला आसक्का ये सकलाः सर्वेऽपि पुरुषाः कवयः तदन्ये च तेषां साधारणं समानमिदं नरस्तवनरूपं दूषणं, परं तु अविवेकिभिः अवि. चारिभिः केवलं कविष्वेव, न त्वन्येषु आधीयते आरोप्यते ॥ २३५ ॥
पद्यैरिति । कवयः हृद्यतमैः अतिमनोहरैः रसालंकारादिपरिपूर्णत्वेनेत्यर्थः । पद्यैः श्लोकः पृथ्वीपतीन् राज्ञः प्रायेण स्तुवन्ति । प्रायग्रहणात् केचित् पद्यादिरचनप्रयत्नं विनैव स्तुवन्तीति ज्ञेयम् । अन्ये च तान् राज्ञः अचमत्कारैः उपमाद्यलंकाराभावात् आहादजननासमर्थैः अत एव असारैरपि वचोभिर्भाषणैः स्तुवते
For Private And Personal Use Only

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331