Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 299
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९६ [मीमांसक विश्वगुणादर्शचम्पू:- अथ मीमांसकवर्णनम् ४८. कु०-अपरत्र व्योमयानमानयन्नग्रतो निर्वर्ण्य सोपालम्भम् - मीमांसकाः कतिचिदत्र मिलन्ति वेद प्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः ।। उद्घोषितोऽप्युपनिषद्भिरशेषशेषी ___ ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥ ५६१ ॥ विशिष्य च मीमांसकगोष्ठया विश्रुताः शबरादयः शबरा इव भगवद्भक्तानां विनिन्दनीयाः ॥ २३९ ॥ ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम् ॥ चैतन्यस्यापह्नवं देवतानां चक्रुर्विश्वं नश्वरं मन्यमानाः ॥ ५६२ ।। भवानन्द-जगदीश-गदाधरप्रभृतयश्चाचार्याः ग्रन्थैः स्वस्वकृतैः शास्त्रप्रबन्धैः हृदयस्य अन्धकारं अज्ञानरूपं निरुन्धते निवारयन्ति ॥ ५६० ॥ मीमांसका इति । अत्रास्मिन् देशे कतिचित् मीमांसकाः जैमिनिमुनिप्रणीतकर्मविचारणाप्रतिपादकशास्त्रविदः मिलन्ति उपलभ्यन्ते । ते वेदे प्रामाण्यस्य स्वतःप्रामाण्यस्य साधनं व्यवस्थापनं कुर्वन्तीति तत्कृतोऽपि, अभिवन्द्याः नमस्कर्तुं योग्या न भवन्ति । यतः उपनिषद्भिः श्रुतिशिरोभागैः अशेषस्य निखिलप्रपञ्चस्य शेषी अङ्गी अधिष्ठानमिति यावत् । सकलदृश्यप्रपञ्चविलयेऽप्येक एवाविनाशीत्यर्थः । अत एव ब्रह्म परब्रह्मरूपः पुरुषोत्तमो नारायणो भगवान् उद्घोषितः “आत्मा वा इदमेक एवान आसीत् , नान्यत्किंचन मिषत् , यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः, तमेव विदित्वाऽ. तिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इत्यादिवचनैः यथार्थतया प्रतिबोधितोऽपि यैर्मीमांसकैः नाभ्युपगतः न स्वीकृतः, तत इति संबन्धः । कमैव जगजन्मादिकारणमिति हि मीमांसकानां सिद्धान्तः ॥ ५६१ ॥ विशिष्येति । मीमांसकानां गोष्ठ्यां सभायां विश्रुताः प्रसिद्धाः शबरः शबरखामी मीमांसासूत्रभाष्यकर्ता आदिमुख्यो येषां कुमारिलभट्टादीनां ते तदादयः शबराः किराता इव भगवद्भक्तानां विनिन्दितुं योग्याः विनिन्दनीयाः सन्ति॥२३९॥ ते इति । ते पूर्वोक्ताः मीमांसाशास्त्रेण, अत्र शास्त्रशब्दस्तज्ज्ञानपरः तेन मीमांसाशास्त्रज्ञानेनेत्यर्थः । लोके प्रसिद्धाः, पक्षे ते अमी किरातादयः मांसाशैः मांसभक्षकैर्जनैः अस्त्रैः बाणादिभिश्च सहिताः लोके प्रसिद्धाः इति च, सर्वर्षीणां व्यास-वसिष्ठादीनां सत्तां स्थितिं नैव सेहिरे नैव मर्षितवन्तः । तेषां कर्मानभिमानपूर्वकपरमा १ 'वीश्वरं'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331