Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 297
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९४. विश्वगुणादर्शचम्पू: [ तार्किकसमाया वाचाटाः श्रुतिकटु रटन्तो घटपटान् __न लज्जन्ते मन्दाः वयमपि तु जिहेति विवुधः ॥ ५५५ ॥ वि०-वयस्य विविधोपकारविधायकान् नैयायिकान् मावमंस्थाः ॥ शृणु तावत्मोहं रुणद्धि विमलीकुरुते च बुद्धिम् सूते च संस्कृतपदव्यवहारशक्तिम् ॥ शास्त्रान्तराभ्यसनयोग्यतया युनक्ति तर्कश्रमो न तनुते ? किमिहोपकारम् ॥ ५५६ ॥ तथाहिप्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः पारज्ञस्याप्यपरिकलितन्यायशास्त्रस्य पुंसः ॥ वादारम्भे वदितुमनसो वाक्यमेकं सभायाम् प्रहा जिह्वा भवति कियती पश्य कष्टामवस्थाम् ॥ ५५७ ॥ पदानां अवच्छिन्नावच्छेदक-प्रतियोग्यादिशब्दानां ओघान् विद्धतः प्रयोजयन्तः सन्तः, अत एव वाचाटाः बहुगीवाचः “वाचाटो बहुगद्यवाक्" इत्यमरः । सभायां श्रुतिकटु कर्णकटु यथा तथा घटपटान् शब्दान् रटन्तः सन्तः मन्दाः मूढाः एते नैयायिकाः खयं न लज्जन्ते, अपि तु विबुधः पण्डितः जिहेति लज्जते ॥५५५॥ वयस्येति । विविधाः नानाप्रकाराः ये उपकाराः शास्त्रान्तराभ्यासे बुद्धिवैशद्यादयस्तेषां विधायकान् संपादकान् नैयायिकान् मावमंस्थाः वृथादूषणैस्तेषामपमानं मा कुर्वित्यर्थः ॥ २३८॥ मोहमिति । तर्के तर्कशास्त्रे श्रमोऽभ्यासः मोहं बुद्धिभ्रमं रुणद्धि विनाशयति, बुद्धिं च विमलीकुरुते मान्द्यादिदोषपरिहारपूर्वकं निर्दोषीकरोति, संस्कृतानि प्रौढत्व-परिशुद्धत्वादिसंस्कारयुक्तानि यानि पदानि तेषां व्यवहारे भाषणे शक्ति सामर्थ्य सूते जनयति । शास्त्रान्तरस्य व्याकरणाद्यन्यशास्त्रस्य अभ्यसने योग्यतया युनक्ति संगोजयति । ततः इह लोके तदध्येतरि वा तर्कश्रमः उपकार न तनुते न करोति किम् ? ॥ ५५६ ॥ प्राय इति । काव्यैः काव्यग्रन्थाभ्यासैः गमितं यापितं वयो येन तस्य, जन्मपर्यन्तं काव्याभ्यासशीलस्येत्यर्थः । पाणिनीयस्य पाणिनिमुनिप्रणीतव्याकरणस्य अम्बु. राशेः समुद्रस्य पारज्ञस्यापि आसमाप्तिव्याकरणशास्त्रनिष्णातस्यापीत्यर्थः । अपरिकलितमनभ्यस्तं न्यायशास्त्रं येन तस्य पुंसः पुरुषस्य सभायां वादस्य पक्षद्वयस्थपण्डितानां पूर्वपक्षोत्तरपक्षरूपस्य आरम्भे एकं वाक्यमपि, न त्वधिक, वदितुमनसः १ विविधोपाय'. २ योग्यतमं व्यनक्ति'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331