Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - वर्णनम् ४७] पदार्थचन्द्रिकाटीकासहिता । मेषस्याण्डमियत्पलं बलिभुजो दन्ताः कियन्तस्तथे त्येवं सन्ततचिन्तनैः श्रमजुषो न स्युः कथं पण्डिताः ॥ ५५३ ॥ विशिष्य चैतस्य शुष्कतार्किकस्य रीतिर्विवेकिनामुपहासास्पदम् २३७ शृणु तावत न जिघ्रत्याम्नायं स्पृशति न तदङ्गान्यपि सकृत् ___ पुराणं नाधीते न गणयति किंच स्मृतिगणम् ॥ वदन् शुष्कं तर्क परपरिभवार्थोक्तिभिरसौ नयत्यायुः सर्व निहतपरलोकार्थयतनः ॥ ५५४ ॥ अपि चप्रयत्नैरस्तोकैः परिचितकुतर्कप्रकरणाः परं वाचो वश्यान् कतिपयपदौघान्विदधतः ॥ वहिव्याप्यो धूमः धूमवांश्चायं च पर्वतः इत्यादिरूपयोः युग्मं द्वयं तु न हेतुः, मरुद्वायुः त्वाचः त्वगिन्द्रियग्राह्यः न भवति । इत्युक्तरीत्या मोहसंपादकेन भ्रमसंपादकेन वादेन मुखराः शब्दायमानाः नैयायिकाः न्यायशास्त्र विदः बुधाः पण्डिताश्चेत् स्युः, तर्हि मेषस्य अण्डं इयन्ति एतावत्परिमाणानि पलानि यस्य तत्तथाभूतं, पलं नाम कर्षचतुष्टयरूपं तोलप्रमाणम् । एतदेकद्ध्य दिसंख्याकपलप्रमाणमित्यर्थः । तथा बलिभुजः काकस्य "काके तु करटारिष्ट-बलिपुष्ट-सकृत्प्रजाः । ध्वासात्मघोष-परभृद्बलिभुग-वायसा अपि ।” इत्यमरः । दन्ताः कियन्तः कतिसंख्याकाः सन्ति ? इत्येवंप्रकारेण संततं चिन्तनैर्विचारैः श्रमजुषः प्रयत्नकर्तारः जनाः पण्डिताः कथं न स्युः ? अपि तु उभयत्रापि फलाविशेषात्स्युरेवेति भावः ॥ ५५३ ॥ विशिष्येति । विशिष्य विशेषतः एतस्य शुष्कतार्किकस्य निष्फलतर्कशास्त्रविदो रीतिविवेकिनां इतरशास्त्रविवेचनशीलानां उपहासास्पदं परिहासास्पदं भवति २६७ नेति । असौ तार्किकः आम्नायं वेदं न जिघ्रति नाभ्यस्यति, तस्य वेदस्याङ्गानि शिक्षादीनि सकृदेकवारमपि, किमु वारं वारं, न स्पृशति नाधीते, पुराणं पाद्मवैष्णवादिकं नाधीते. किंच स्मृतीनां मन्वादीनां गणं समुदायं न गणयति न मानयति । अत एव निहतं परित्यक्तं परलोकार्थ स्वर्गादिप्राप्यर्थे यतनं यत्नो येन सः तथाभूतः सन् , परेषां शास्त्रान्तरकोविदानां स्वेतरनैयायिकानां च परिभवः पराभव एव अर्थः प्रयोजनं यासां ताश्च ता उक्तयश्च ताभिः उपलक्षितं शुष्कं निष्फलं तक वदन् सन् , सर्वमायुर्जीवितकालं नयति गमयति ॥ ५५४ ॥ प्रयत्नैरिति । किंच अस्तोकैबहुभिः प्रयत्नैः श्रमैः परिचितान्यभ्यस्तानि कुत्सितानां तर्काणां प्रकरणानि वाद-जल्प-वितण्डादिपरिपूरितानि यैस्ते परं वाचो वाण्याः वश्यान् खाधीनान् असकृत् परिशीलनादित्यर्थः । कतिपयानां त्रि-चतुराणां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331