Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 294
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४६] पदार्थचन्द्रिकाटीकासहिता । २९१ परं तु संपन्निर्मदभावयोरनघयोः साहित्य-पाण्डित्ययोः ___ सामर्थ्यान्यजनोपकारकतयोः साम्राज्य-दाक्षिण्ययोः ॥ औदार्य-प्रियवादयोश्च कथयन्त्याचार-विज्ञानयोः .. सामानाधिकरण्यमेव विबुधोत्तंसप्रशंसास्पदम् ॥ ५५० ॥ इदं चावधेयम्प्रणतचरणरेणुविष्णुचित्तः शठमथनरसो मुनिः स भूतः ॥ मधुरकविरितोपरे च धन्याः कति न पुनन्ति जगन्ति सूक्तिपूरैः ५५१ दिकर्ता, डिण्डिमाख्यः, श्रुतिमुकुटगुरुर्वेदान्ताचार्यः, भल्लटः, भट्टबाणः, कादम्बर्यादिग्रन्थकर्ता च, अन्ये उक्केभ्य इतरे सुबन्ध्वादयः कवयः, आदिशब्देन जयदेवादिग्रहणम् । ख्याताः प्रसिद्धाः सन्ति । ते कृतिभिः उपरिनिर्दिष्ट खविरचितकाव्य-नाटकादिग्रन्थैः इह लोके विश्वं आह्लादयन्ति आनन्दयन्ति ॥ ५४९ ॥ __ को वैतेषां कृतिभिर्जनानां लाभः इत्यपेक्षायामाह-परं त्विति । तुर्विरोधसूचकः । तेन तत्कृतिषु वक्ष्यमाणप्रकारेण वर्णनमपेक्षितमिति तदर्थः । संपदिति । अनघयोर्निर्दोषयोः, एतत्प्रतिषष्ठयन्तं योजनीयम् । संपदः भावः लक्ष्म्याः सत्ता निर्मदस्य अहंकारराहित्यस्य भावश्च तयोः, भावशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येकं संबन्धः । साहित्यं काव्यालंकारादिज्ञानं, पाण्डित्यं तर्कादि. शास्त्रेषु प्रावीण्यं तयोः, सामर्थ्य परपराभवशक्तत्वं अन्यजनेषु उपकारकता च तयोः, साम्राज्यं सार्वभौमत्वं दाक्षिण्यं सरलत्वं च तयोः, औदार्य दातृत्वं प्रियवादः प्रियभाषणं च तयोः, आचारः शास्त्रोक्ताचरणं विज्ञानं शास्त्रज्ञानं च तयोश्च सामानाधिकरण्यमेकत्र स्थितिमेव विबुधोत्तंसानां ज्ञानिश्रेष्ठानां प्रशंसायाः स्तुतेः आस्पदं स्थानं कथयन्ति । जना इति शेषः ॥ ५५० ॥ प्रणतेति । प्रणताः प्रकर्षेण नमस्कृताः अर्थाद्भक्तैः चरणरेणवः पादपांसवो यस्य सः तथाभूतः स चासौ विष्णुश्च भगवान् तस्मिन् चित्तं यस्य सः, सततं विष्णुध्यानतत्पर इत्यर्थः । शठानां कपटवादिनां मथने पराजये रस उल्लासो यस्य सः, सः प्रसिद्धः मुनिः मधुरकविः श्रीशठकोपमुनिरित्यर्थः । तस्यैवेदं नामान्तरमिति भाति । भूतः जातः । इतः श्रीशठकोपमुनेः अपरे अन्ये तत्तद्देशभाषायां काव्यनिमातारः ज्ञानेश्वर-एकनाथ-तुलसीदास-श्रीधर-नामदेव-तुकाराम-वामनादयः धन्याः पुण्यवन्तः सन्तः सूक्तीनां मधुरभाषणानां अर्थात् भावार्थदीपिकादिरूपाणां पूरैः प्रवाहैः कति जगन्ति लोकान न पुनन्ति ? अपि तु बहव एतादृशः सन्तीत्यर्थः५५१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331