Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 293
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० विश्वगुणादर्शचम्पू: [कवि क्षणमालोक्य सादरम् प्राचेतस-व्यास-पराशराद्याः प्राञ्चः कवीन्द्रा जगदञ्चितास्ते ॥ गोष्ठी नवीनापि महाकवीनां पूज्या गुणज्ञैर्भुवनोपकीं ॥५४८॥ तथा हिमाघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराजः ।। श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुभल्लटो भट्टबाणः ख्याताश्चान्ये सुबन्ध्वादय इह कृतिभिर्विश्वमाहादयन्ति ॥५४९॥ तेषां स्तुतिं कुर्वन्ति । उभयोस्तारतम्यमाह-पद्यानां श्लोकानां आरम्भणे करणे शक्तिः सामर्थ्य अशक्तिरसामर्थ्य च ताभ्यां विहितः कृतः कवीनां अन्येषां च मध्ये भेदः विशेषः अस्ति । परंतु नरस्तुतिकृतो दोषस्तु सर्वत्र कवि-तदितर-धनचपलजनेषु भवतीति सार्वत्रिक एव, न तु कवीनामेवायं दोषः, प्रत्युत चमत्कारज. नितो गुण एव संभवतीति ॥ ५४७ ॥ प्राचेतसेति । प्राचेतसः वाल्मीकिः, व्यासः सत्यवतीसुतः, पराशरश्च ते आद्याः प्रथमाः येषु ते प्राञ्चः प्राचीनाः अत एव कवीन्द्राः कविषु श्रेष्ठाः ते प्रसिद्धाः जगति अश्चिताः पूज्याः, आसन्निति शेषः । तथा तत्पथसमाश्रयणात् नवीना अर्वाचीनापि भुवनोपकत्री, विविधसृष्टपदार्थगुण-दोषवर्णनेनेति शेषः । महाकवीनां कालिदासादीनां गोष्टी सभा “समज्या परिषद्गोष्ठी सभा-' इत्यमरः । गुणज्ञैः जनैः पूज्या माननीया ॥ ५४८ ॥ 'कवीनां नवीनापि गोष्ठी पूज्या' इत्युक्तं तदन्तर्भूतानेव कांश्चित् प्रसिद्धान् नामतो निर्दिशति-माघ इति । माघः एतनामा कविः शिशुपालवधाख्यकाव्यकर्ता, चोरः एतन्नामा कविः, अस्यैव बिहण इति नामान्तरं श्रूयते । एतद्विषये अत्र. त्यमुद्रितपुस्तके टिप्पण्यामेवं वृत्तान्त उपलभ्यते-'चोरपञ्चाशिकाभिधमेकं काव्यमनेन कविना राजाकविधेयराजपुरुषकरिष्यमाणशूलारोपणप्राकालिकतद्वञ्चनलब्धावसरे कालचौरत्वापदेशेन निमित्तेन विरचितम्' इति । मयूरः, मुररिपुर्मुरारिनामा कवि: अनर्घराघव नाटककर्ता, अपरः एभ्यः अन्यः यः सारवित् काव्यनिर्माणसामग्रीभूतसाहित्यालंकारादितत्त्वज्ञः भारविनामा किरातार्जुनीयादिकाव्यनिमाता, श्रीहर्षः वत्सराजचरितादिकर्ता, कालिदासः कविकुलगुरुत्वेन प्रसिद्धः रघुवंश-कुमारसंभव-मेघदूतादिकाव्यानां, अभिज्ञानशाकुन्तल-विक्रमोर्वशीयादिनाटकानां च निर्माता, अत एवायं प्रथमं प्रथितुं योग्यः कविमालिकायां परं छन्दोऽनुरोधान तथा कृतमिति बोध्यम् । अथ भवभूतिरिति आयो नाम यस्य सः कविः मालतीमाधव-उत्तररामचरितादिनाटककर्ता, भोजराजः प्रसिद्धः, श्रीदण्डी दशकुमारचरिता १ बिल्हणो. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331