Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८८
विश्वगुणादर्शचम्पू:
[ कवि
वि० – आन्तरध्वान्तहरयः कवयस्त्वया नाधिक्षेप्याः ॥ २३४ ॥ कामं वाचः कतिचिदफलाः सन्तु लोके कवीनाम् सन्त्येवान्या मधुरिपुकथासंस्तवाः कामदोरध्यः ॥ वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः || ५४४ ॥ कल्याणं भगवत्कथाग्रथनतः काव्यं विधातुः कवे
स्तस्यैवाङ्गतया क्वच्चिद्रचयतः शृङ्गार - वीरादिकम् ॥ को दोषो भविता ! यदत्र कविताशीलैः समाश्रीयते पन्था व्यास- वसुन्धराश्रुतिभवग्रन्थादिषु प्रेक्षितः || ५४५ ॥
'
प्रत्यक्षं प्रन्थारम्भे मङ्गलादौ श्रीहरि - शिवादिवर्णनप्रसङ्गेऽपि व्रीडावह शृङ्गारादिवर्णनेन निजां वाण दूषयन्ति वास्तविकेश्वरसामर्थ्यं निहुवते च । यथा भट्टनारायणेन वेणीसंहारनाटके मङ्गलाचरणतृतीयपद्ये 'उत्तिष्ठन्या रतान्ते भरमुरगपती इत्या दिना भगवत्या लक्ष्म्याः संभोगोत्थानं वर्णितं, तत्किं भगवत्याः अन्यन्निरवयं माननीयं च चरित्रं नासीदेव ? परं तु तदेषां विषयवासनाम लिनान्तःकरणानां कवीनां मनः कुतः प्रवेष्टुं शक्नोति ? इत्यलमप्रस्तुतप्रवचनेन । अत्रापि दृष्टान्तमाह – अनीतिः नयशिक्षणरहितः अवनीपती राजा यथा देवतानां मुकुटस्य किरीटस्य भागेषु प्रान्तेषु योग्यैरुचितैः, खचितुमिति शेषः । मौक्तिकैः गृहे पालितायाः शुन्याः तनुं शरीरं विभूषयति । तथैवैतेषां कवीनां कृतिरिति भावः ॥ ५४३ ॥
आन्तरेति । आन्तरस्य मनोगतस्य ध्वान्तस्य अन्धकारस्य अज्ञानरूपस्येत्यर्थः । हरयः सूर्याः तत्सदृशा इत्यर्थः । कवयस्त्वया नाधिक्षेप्या न निन्दनीयाः ॥ २३४ ॥
उक्तमेव स्पष्टयति- काममिति । लोके कवीनां कतिचित् वाचः वाण्यः स्त्रीवर्णनादिरूपाः कामं अफला: निष्फलाः सन्तु । नैतादृशः सर्वा अपीत्यर्थः । किंतु अन्याः स्त्री - राजादिवर्णनादितराः मधुरिपोः श्रीकृष्णस्य कथायाः संस्तवः सम्यकस्तुतिः यासु ताः अत एव कामदोग्ध्र्यः अभीष्टसद्वत्यादिप्रदाभ्यः वाचः सन्त्येव । अत्रैतादृशो वाचः कालिदासस्य रघुवंश-कुमारसंभवादिकाः, माघस्य शिशुपालवधादिरूपाः, भवभूतेरुत्तररामचरित्रादयश्चोत्ह्याः । अत्रार्थान्तरं न्यस्यति — अश्रोत्रियेभ्यः अवैदिकेभ्यः अर्थात् कुपात्रेभ्यः दत्तं स्ववयागपूर्वकं परखत्वोत्पादनपूर्वकं च समर्पितं वित्तं द्रव्यं कामं विफलं भवतु । किंतु पात्रे सत्पात्रे अग्निहोत्रादिसंपन्ने दत्तैः समर्पितैः धनैः भूरिदातुः अतिशयदानकर्तुः पुरुषस्य धन्यता पुण्यवत्ता भवति हि एव ॥ ५४४ ॥
' स्तुवद्भवनिवर्तके -' इत्यादिनोक्तं स्त्रीवर्णनरूपं दोषमुद्धारयन्नाह - कल्याणमिति । भगवतः श्रीविष्णोः कथानां राम-कृष्णाद्यवतारचरित्राणां ग्रथनतः रचनया कल्याणं निःश्रेयसकरं काव्यं रघुवंश-कुमारसंभव - शिशुपालवध - किरातार्जुनी
For Private And Personal Use Only

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331