Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् ४८] पदार्थचन्द्रिकाटीकासहिता। २९७ - वि०-सखे ! निखिलनिगमार्थनिर्धारणबद्धादरेषु मीमांसकेषु. मा म सन्नह्येथाः ॥ २४० ॥ शृणुआदौ धर्मे प्रमाणं विविधविधिभिदां शेषतां च प्रयुक्तिम् __ पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम् ॥ बाधं तन्त्रं प्रसङ्गं नयनयनशतैः सम्यगालोचयद्भयो भिन्ना मीमांसकेभ्यो विदधति ? भुवि के सादरं वेदरक्षाम् ॥५६३॥ स्मैकचित्तत्वात् । यतः, एते मीमांसकाः नश्वरं विनाशशीलं विश्वं मन्यमानाः सत्यत. याङ्गीकुर्वाणाः सन्तः, क्वचित् 'वीश्वरं' इति पाठः । तत्पक्षे विश्वं वीश्वरं ईश्वररहितमित्यर्थः । देवतानां अग्नीन्द्रादियज्ञियदेवानां चैतन्यस्य चिद्रूपत्वस्य अपह्नवं लोपं चक्रुः कृतवन्तः । अग्नीन्द्रादिदेवतानां विग्रहवत्त्वे युगपन्नानाकर्तृकयागेषूपस्थानासं. भवान्मन्त्राणामेव देवतारूपत्वाझीकारान्मन्त्राणां चाचेतनत्वादिति भावः ॥ ५६२ ॥ सख इति । निखिलानां निगमानां वेदानां अर्थस्य निर्धारणं नयसहस्रपुरस्कार• पूर्वकं निश्चयः तस्मिन् बद्धादरेषु कृतादरेषु मीमांसकेषु मा स्म संनयेथाः तान् दूषयितुं मोयुक्तो भव ॥ २४० ॥ प्रथमं तावन्मीमांसकानां वेदरक्षकत्वादतीव वन्द्यत्वमाह-आदाविति । आदौ द्वादशाध्यायघटितमीमांसाशास्त्रस्य प्रथमाध्याये धर्मे चोदनालक्षणेऽर्थे प्रमाणं "अग्निहोत्रं जुहोति, वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिचोदनारूपं, ततो द्वितीयाध्याये विविधाः अनेकप्रकारा ये विधयः चोदनाः तेषां भिदां भेदं, ततस्तृतीये, एवमग्रेऽप्युक्तं सर्वं प्रत्यध्यायं ज्ञेयम् । शेषतां अङ्गत्वं, प्रयुक्ति प्रयोज्यप्रयोजकभावं च, पौर्वापर्य पूर्वमिदं कर्म कर्तव्यं अनन्तरमिदमित्यादिक्रमः, अधिकारः फलखाम्यं च तौ, तदनु तदनन्तरं सप्तमाष्टमयोर्बहुविधमनेकप्रकार अतिदेशं प्रकृतितुल्यत्वं तथा ऊहं कर्मभेदे मन्त्रादिविनियोग-विपर्ययादित, बाधं उत्सर्गतः प्राप्तस्य अपवादं, तन्त्रं सकृदनुष्ठितस्याङ्गजातस्य खप्रयोजकानेकप्रधानोपकारकत्वं, प्रसङ्गं अ. न्यार्थानुष्ठिताजस्यान्येनोपजीवनं च एतान् सर्वान् नयाः तत्तदधिकरणप्रतिपादितयुक्तय एव नयनानि लोचनानि तेषां शतैः सम्यक् आलोचययोऽवलोकययः मी. मांसकेभ्यः भिन्नाः अन्ये भुवि के पण्डिताः सादरं श्रद्धया सहितं यथा तथा वेदस्य रक्षां तत्प्रतिपादितकर्मणां यथार्थनिर्णयरूपां विदधति कुर्वते ? प्रमाणादीनां यथार्थस्वरूपबोधने तावन्नान्ये मीमांसकेभ्यः शक्ता इति भावः ॥ ५६३ ॥ १ विशदमथ भिदाम्', 'प्रथितमथ भिदा', 'विविधदुरभिदा'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331