Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 287
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ विश्वगुणादर्शचम्यू:- [भिषग्इत्थं किल नीतिविदो विदुः ॥ २३० ॥ विदैवज्ञं ग्रामं विबुधविधुरं भूपतिसंभम् मुखं श्रुत्या हीनं मनुजपतिशून्यं च विषयम् ।। अनाचारान् दारानपहरिकथं काव्यमपि च प्रवक्तृत्वापेतं गुरुमपि सुबुद्धिः परिहरेत् ॥ ५३५ ॥ अथ भिषग्वर्णनम् ४५. कृ.--अस्त्वेवम् । इत्यन्यतो वीक्ष्य सोपहासम्__मिथ्यौषधैर्हन्त ! मृषाकषायैरसह्यलेबैरयथार्थतैलैः ॥ ___ वैद्या इमे वञ्चितरुग्णवर्गाः पिचण्डभाण्डं परिपूरयन्ति ॥५३६॥ किंच न धातोर्विज्ञानं न च परिचयो वैद्यकनये __ न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः ॥ तथाप्येते वैद्या इति तरलयन्तो जडजना नसून्भृत्या मृत्योरिव वसु हरन्ते ! गदजुषाम् ॥ ५३७ ॥ विदैवज्ञमिति । सुष्टु विचारसंपन्ना बुद्धिर्यस्य सः सुबुद्धिः पुरुषः विदैवज्ञं ज्यौतिषिकरहितं ग्राम, विबुधविधुरं पण्डितशून्यं भूपतिसभं राज्ञः सभा, क्वचित् 'विबुधविधुरां भूपतिसभा' इति पाठान्तरं दृश्यते । तत्तु न युक्तं, "सभा राजाऽमनुध्यपूर्वा" इति राजपर्यायपूर्वसभान्ततत्पुरुषस्य नपुंसकत्व विधानात् । श्रुत्या वेदेन हीनं रहितं मुखं, मनुजपतिना राज्ञा शून्यं च विषयं देशं, अनाचारान् सतीत्वाचाररहितान् व्यभिचारसंपन्नानित्यर्थः । दारान् स्त्रियं चापि, अपगता हरिकथा यस्मात् तत् हरिगुणानुवर्णनरहित मित्यर्थः । काव्यं च, प्रकर्षेण यद्वक्तृत्वं यथार्थोपदेशरूपं तस्मादपेतं निवृत्तं गुरुमध्यापकं च परिहरेत् त्यजेत् ॥ ५३५ ॥ मिथ्येति । इमे वैद्याः मिथ्यौषधैः रोगादिसम्यकपरीक्षामन्तरा प्रयुक्तैरससौषधैः, मृषाकषायैः पूर्ववदेव वृथाप्रयुक्तैः, असधैः सोढुमशक्यैलेंद्यैः, अयथार्थैः विरुद्धरोगप्रयुक्ततया अयोग्यैस्तैलैश्च, वञ्चितः रुग्णानां रोगिजनानां वर्गः समु. दायो यैस्तथाभूताः सन्तः, पिचण्डमुदरं भाण्डमिव परिपूरयन्ति पूर्ण कुर्वन्ति ५३६ नेति । एषां वैद्यानां धातोः पारद-ताम्रादेः विज्ञानं विशेषतः शुद्धिकरणादिज्ञानं न, वैद्यकनये वैद्यकशास्त्रे चरक-सुश्रुतादिग्रन्थे परिचयोऽभ्यासः न, रोगाणां ज्वरा१ 'विधुरां'. २ 'सभाम्'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331