Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
विश्वगुणादर्शचम्पू:-
[वेदान्ति
कु०-तथ्यमेव, तथाप्यवैदिकव्रतेष्वेव प्रयततां शिवभक्तिमभिनयतां पाषण्डविशेषाणामेषां वेष एव भीषयति हृदयम् ॥ २२२ ॥
तथाहिश्रिताभव्यमार्गाश्चिताभस्मशुष्यन्निटाला जटालाः स्फुटालापशून्याः ॥ स्मशानामिसख्या दृशा निर्दहन्तः पिशाचा इवामी दिशासु भ्रमन्ति ५२४ किंच
एषामतिजुगुप्सिता रीतिः ॥ २२३ ॥ पक्षीकृत्य गिरीशं सिध्या रहिताश्च मानहीनाश्च ॥ इच्छन्त्यधिगन्तुमिमे धनंजयं लिङ्गदर्शनेनैव ॥ ५२५ ॥
इति मतिं आवहति संपादयति, नारकं दुर्गतिं आतनोति विस्तारयति । पुनः पुननरकमेव प्रापयतीत्यर्थः । प्रौढिं महत्त्वं निहन्ति विनाशयति, क्षुद्रत्वं ददातीत्यर्थः । संपदमर्थसंपत्तिमपि परिलुम्पति परिहरति । आयुर्जीवितकालं क्षिणोति क्षीणं करोति, ततश्चैवं समस्तदोषान् उपचिनोति वर्धयति ॥ ५२३ ॥
तथ्यमिति । त्वयोक्तं तथ्यमेव सत्यमेव, तथापि एतेषु शैवेष्वयं प्रकारो न दृश्यते, किंतु अवैदिकानि चेदबाह्यानि यानि व्रतानि केवलं शैवागमप्रोक्तानि तेष्वेव प्रयततां प्रयत्नं कुर्वाणानां पाषण्डविशेषाणां वेदूषकभेदानां जनानां शिवभक्ति अभिनयतां प्रकटीकुर्वतां एषां शैवानां वेषः जटा-भस्मादिधारणरूपः दिगम्बरत्खादिरूपश्च, हृदयमन्तःकरणं भीषयत्येव ॥ २२२ ॥
श्रितेति । श्रितः अङ्गीकृतः अभव्यः अकल्याणकरः मार्गः यैस्ते, चितायाः भस्मना शुष्यत् शुष्कीभवत् निटालं भालं येषां ते, जटाला: जटायुक्ताः, स्फुटः स्पष्टः श्रवणयोग्यः य आलापो भाषणं तेन शून्याः रहिताः, स्मशानानेः सख्या मित्रभूतया तत्सदृश्या अतिरक्तवर्णयेत्यर्थः । दृशा लोचनेन निर्दहन्त इव सन्तः, अमी पाषण्डाः पिशाचा इव दिशासु दशसु भ्रमन्ति पर्यटन्ति ॥ ५२४ ॥ एषामिति । एषां पाषण्डानां अतिजुगुप्सिता अतीव निन्द्या रीतिः ॥ २२३ ॥
तामेव स्पष्टतया प्रतिपादयति-पक्षीकृत्येति।मानेन प्रमाणेन श्रुत्यादिना, 'यत्र यत्र धूमस्तत्र तत्र वह्निः' इति व्याप्तिज्ञानेन च हीना रहिताः अत एव सिद्ध्या मन्त्रादिसाधनेन रहिताः, पर्वतो वह्निमान् इति निश्चयेन चार हिताः युक्ताः इमे पाषण्डाः लिङ्गस्य शिवलिङ्गस्य, धूमरूपस्य च हेतोः, दर्शनेनैव दर्शनमात्रेणैव गिरीशं शिवं पर्वतं च पक्षीकृत्य इष्टदेवत्वेनाश्रित्य, पक्षताश्रयं च कृत्वा, धनं द्रव्यं जयमुत्कर्ष च, धनंजयमग्निं च अधिगन्तुं प्राप्तुं अनुमातुं च इच्छन्ति ॥ ५२५ ॥
१ 'सत्यमेव तथाप्यवैदिकवृत्तिवेव प्रयियासतां'.
For Private And Personal Use Only

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331