Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 272
________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ४३] पदार्थचन्द्रिकाटीकासहिता । पुनः सरोषम् — हन्त ! ब्रह्मबन्धव इमे ब्रह्मणे परस्मै बन्ति ॥ २९३ ॥ यतः www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - २६९ यदेव सर्वज्ञमपास्तदोषं भवार्तिहारि श्रुतमागमान्ते || अज्ञं परं ब्रह्म तदेव भुते संसारतापानिति संगिरन्ते ॥ ५०९ || तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्याचचक्षिरे ।" " नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।" इत्यादिबहुश्रुतेः सर्वप्रत्यक्षागमप्रमाणातीतमित्यर्थः । पक्षे सर्वप्रमाणबहिर्भूतत्वात्स्वकपोलकल्पित मित्यर्थः । अत एव विशिष्यते इतरव्यावृत्तत्वेन ज्ञायते यैस्ते विशेषाः प्रकाराः । धर्मा इति यावत् । ते निर्गता यस्मात् तन्निर्विशेषम् । पक्षे आदरातिशयप्रयोजकानितरसाधारणप्रशस्तगुणरहितं; परं "इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धियों बुद्धेः परतस्तु सः ।" इत्यादिभगवद्वाक्यप्रामाण्यासर्वेभ्यः श्रेष्ठतमं पक्षे कुत्रापि केनाप्यदृष्टपूर्वस्वभावकं सकललोकविलक्षणमिति यावत् । ब्रह्म आश्रयन्ति स्वीकुर्वन्ति । बतेत्यानन्दे खेदे च ॥ ५०८ ॥ ननु परं ब्रह्माश्रयन्ति चेत् का हानिः सम्यगेव तदित्याशङ्कयाह -- हन्तेति । ब्रह्मबन्धवः दुष्टब्राह्मणाः परस्मै इन्द्रियसंघातात् परत्र वर्तमानाय ब्रह्मणे परमात्मने दुन्ति ॥ २१३ ॥ द्रोहप्रकारमेवोपपादयति-यदेवेति । आगमान्ते वेदान्ते यदेव ब्रह्म सर्वे जाग्रत्-खप्न-सुषुप्त्यात्मकमवस्थात्रयं जानाति अन्तर्यामित्वेन प्रत्यक्षयतीति तथाभूतं सर्गस्थित्यादिकं वा जानातीति । तथा च श्रुतिः - " यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि ।” इति । अत एव अपास्ताः निर्गताः दोषाः जन्मादिविकारा यस्मात् तत् " न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।" इति श्रुतिरत्रार्थे प्रमाणम् । भवार्तिहारि संसारदुःखनिवर्तकं " ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्म - मृत्युप्रहाणिः ।” इति श्रुतिरपि । इति श्रुतं आकर्णितं, तदेव परं ब्रह्म अज्ञं जीववत् किंचिज्ज्ञ, अल्पार्थे नञ् । संसारतापान् जन्म-जरा-मरणादीन् भुक्ते इति संगिरन्ते । “ज्ञाज्ञौ द्वावजावनीशावजा येका भोक्त-भोगार्थंयुक्ता । अनन्तश्वात्मा विश्वरूपो ह्यकर्ता” । “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।" इत्यादिबहुलश्रुतिभ्यः प्रतिपादयन्ति । जीव-ब्रह्मणोरैक्यप्रतिपादकानामेतत्कथनं व्याहन्यत इति भावः ॥ ५०९ ॥ १ ‘भोक्त’. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331