Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४२] पदार्थचन्द्रिकाटीकासहिता ।
२६७
स्वाध्यायाध्ययनं प्रतिग्रहकृते वादाय शास्त्रश्रमो दुप्येत्स्वोदरपूर्तये यदि हरेः कैर्यमाचर्यते ॥ ५०५ ॥
अन्यच्च
भूयोदोषैरपि परिवृतः पूरुषः सात्विकानाम् प्रायः पूज्यो भवति भगवद्भक्तिमासाद्य हृद्याम् ॥
आक्रान्ताऽपि प्रबलभुजगैः कण्टकैरप्यनल्यैः
किं नादृत्या सुरभिकुसुमा केतकी भाग्ये भाजाम् ॥ ५०६ ॥ अथ पाण्ड्य-चोलदेशनिवासिस्मार्त- शैवादिवर्णनम् ४२.
इत्यन्यतोऽभिकान् समन्तादवलोक्य साञ्जलिबन्धम् - क्रियासार्थितवेदेभ्यो ग्राहयद्भ्यः श्रुतीर्बहून् ॥
पाण्ड्य - चोलनिवासिभ्यः पण्डितेभ्यो नमोऽस्तु वः ॥ ५०७ ॥
तयै अभिहोत्राद्याश्रमधर्माय वा यागानां ज्योतिष्टोमादीनां आहृतिरनुष्ठानं ख्यातये कीर्त्यर्थे न तु खर्गाद्यर्थ; पाकस्य कृतिः निष्पादनं स्वार्थे स्वभक्षणार्थं न तु पश्चयज्ञाद्यर्थ; अर्थार्जनं द्रव्यसंपादनं कुपात्रविषये कुत्सितवेश्यादिजनविषये त्यागार्थं समर्पणार्थमेव, न तु धर्मार्थ; स्वाध्यायस्य वेदस्य अध्ययनमभ्यासः प्रतिग्रहकृते परदत्तवव्यादिग्रहणार्थे, न तु स्वीयानुष्ठानोपयोगि कर्मज्ञानाद्यर्थं शास्त्रेषु व्याकरण तर्क-मीमांसादिषु श्रमोऽभ्यासः वादाय, न तु तत्त्वावबोधाय; तथा हरेः कैङ्कर्य दास्यं स्वोदरपूये आचर्यते तदा दुष्येदिति हेयोपादेयविद उदाहरन्तीति पूर्वेण संबन्धः ॥ ५०५ ॥ भूय इति । पुरुषो मनुष्यः भूयोदोषैर्बहुभिर्दोषैः संध्यादिकर्मत्यागादिभिः परिवृतः युक्तोऽपि सात्त्विकानां सत्त्वप्रधानमनसां शुद्धमानसानामित्यर्थः । जनानां हृद्यां मनोज्ञां भगवति विष्णौ भक्ति आसाय संपाद्य प्रायः बहुधा पूज्यो मान्यो भवति । एतदेव सदृष्टान्तमाह- केतकी प्रबलाः दुर्भरगरलसंपन्नत्वेन प्रकृष्टशक्तिमन्तश्च ते भुजगाः सर्पाश्च तैः अनल्पैर्बहुभिः कण्टकैश्चापि आक्रान्ता व्याप्तापि सुरभीणि सुगन्धीनि कुसुमानि पुष्पाणि यस्याः सा तथाभूता, हेतुगर्भमिदं विशेषणम् । सुरभिकुसुम संपन्नत्वादित्यर्थः । भाग्यभाजां आहत्या आदराही न भवति किम् ? अपि त्ववश्यमादर्तव्यैव भवतीत्यर्थः ॥ ५०६ ॥
क्रियेति । क्रियाभिः यागाद्यनुष्ठानैः सार्थिताः सफलीकृताः वेदाः यैस्तेभ्यः, बहून् शिष्यवर्गानिति शेषः । श्रूतीर्वेदान् ग्राहयद्भयः पाठयद्भयः पाण्ड्यश्च चोलश्च देशभेदौ तयोः निवासो वसतिरस्त्येषां तेभ्यः पण्डितेभ्यो वो युष्माकं नमः अस्तु ॥ ५०७ ॥
१ 'दुष्येचोदर'. २ 'भाग्यभाजा',
For Private And Personal Use Only

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331