Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६ विश्वगुणादर्शचम्पू:- शठकोपमुनि
हर्यद्धिपङ्करहकिङ्करतारताश्चे
दकप्रसक्तिरकलङ्कहृदां क ? तेषाम् ॥ ५०३ ॥
यत्पुनरभिहितं फणिवर्यपर्यङ्ककैंकर्यार्थ पर्यटनमपि तुर्याश्रमाननुगुणमिति तदपि निपुणनिरूपणविरह विजृम्भितम् ।। २१० ॥
केचन पङ्कजलोचनकैङ्कायैव पर्यटाट्यन्ते ॥
संन्यासिन इह धन्यास्ते. हि खत उपगतस्पृहाविरहाः ॥५०४॥ इत्थं हि हेयोपादेयविद उदाहरन्ति ॥ २११ ॥ भोगायैव नितम्बिनीपरिणयो यागाहृतिः ख्यातये
खार्थे पाककृतिः कुपात्रविषये त्यागार्थमर्थार्जनम् ॥ हरेर्विष्णोरङ्गी चरणावेव पङ्कहे कमले, पङ्कह इति प्रामादिकम् । “तत्पुरुषे कृति-" इत्यलुग्विधानात् । “पङ्केरहं तामरसं" इत्यमरोऽपि । बाहुल्याद्वा कथंचित् समाधेयम् । तयोः किङ्करतायां दास्ये रतास्तत्पराश्चेत् यदि भवेयुस्तर्हि, तत एव अकलई दोषरहितं हृदन्तःकरणं येषां तेषां यतीनां अकस्य कलङ्कस्य "उत्सङ्ग-चिह्नयोरङ्कः कलकोऽङ्कापवादयोः।" इत्यमरः । प्रसक्तिः संबन्धः क्व संभवति ? हरिभक्तिप्रभावादेव धनार्जनादिरूपाः क्षुद्रदोषा नश्यन्तीति भावः । तदुक्तं भगवतैव"अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः-" इत्यादि ॥ ५०३ ॥
यदिति । यत् पूर्व फणिवर्यः शेषः पर्यङ्कः शयनं यस्य तस्य विष्णोः कैकार्थ दास्यार्थ पर्यटनं परिभ्रमणमपि तुर्याश्रमस्य चतुर्थाश्रमस्य अननुगुणमयोग्यमिति "दभिहितं 'संन्यासाश्रममाश्रितोऽपि-' इत्यादिना प्रतिपादितं तत्प्रतिपादनत्सया निपुणं सविवेकं यनिरूपणं अवलोकनं तस्य विरहेणाभावेन विजृम्भितं भ्यः अनम् ॥ २१० ॥
कचनति । केचन संन्यासिनः पर्यटाट्यन्ते पुनःपुनरतिशयेन वा परिभ्रमन्ति, राजधानीमिति शेषः। 'अट गटौ' इत्यस्मात् यङि रूपम् । ते पङ्कजलोचनस्य भगवतो विष्णोः कैङ्कायैव दास्यार्थमेव, एवकारेणेतरदोषारोपव्यवच्छेदः । अत एव खतः उपगतः प्राप्तः स्पृहायाः इच्छायाः विरहः अभावो येषां तथाभूताः निःस्पृहा इत्यर्थः । सन्ति । अत एव च ते इहलोके धन्याः सुकृतिनः हि एव ५०४
इत्थमिति । हेयं त्याज्यं उपादेयं ग्राह्यं च ते उभे विदन्ति जानन्तीति तद्विदः ते, इत्थं वक्ष्यमाणप्रकारेण उदाहरन्ति कथयन्ति ॥ २११॥
भोगायैवेति । यदि नितम्विन्याः स्त्रियाः परिणयः विधिवत् पाणिग्रहः भोगायैव कामवासनापूरणायैव आचर्यते तदा दुष्येत् निन्द्यो भवेत् प्रत्यवायमुत्पादयेदिति वा । एवकारः यदि आचर्यते दुष्येदिति च प्रतिवाक्यमन्तव्यम् । न तु सं
१ पङ्कप्रसक्ति'. २ पर्यटन्तेऽमी'. ३ 'खार्थः'. ४ विषय'.
For Private And Personal Use Only

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331