Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 278
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४३] पदार्थचन्द्रिकाटीकासहिता । २७५ सूर्यादारोग्यमिच्छेत्कमपि हुतवहात्सम्पदुल्लासमिच्छे दीशानात् ज्ञानमिच्छेदनवधिविभवं मोक्षमिच्छेन्मुकुन्दात् ॥ — इत्याद्याः सत्यवाद्यादिममुनिभणितीराकलय्यापि विष्णोः सेवां शैवास्त्यजन्तो बत भवहतये भावयन्ते भवं ते ५१८ अपि च तद्विष्णोः परमं पदं हि तमसः पारे सदा पश्यता ___ सान्द्रं सूरिगणेन निर्मलमहानन्दात्मकं शाश्वतम् ।। अप्रेप्सन्त इमे समेतमनिशं वेतालभूतालिभि लोकं भीकरमञ्चितुं व्यवसिता माहेश्वरं नश्वरम् ॥ ५१९ ॥ स्त्रयः यस्मात्तस्मिन् तज्जनके "रुक्-ताप-शङ्काखातङ्कः" इत्यमरः । परं भृशं अपुरुषे अल्पपुरुष, अनुदरा कन्येत्यादाविव अल्पार्थे नञ्समासः । नित्यं आ ईषदशेन सक्तां अत एव के चित्ते मलं अपुरुषसंबन्धजन्यदुःखं यस्यास्तथोक्तामिव स्थितां "काश्चित्तात्म-रवि-ब्रह्म-वाताः” इति कोशः । अत एव च अभाग्यहतामिव श्रुति मनसि भवन्तीति मनोभवाः कामादयस्तद्दाहके शूलमिव शूलं अज्ञाननाशकं ज्ञानं तेनोपेते प्राप्ये इत्यर्थः । पशुपतौ सर्वेश्वरे निहितहृदयां शैवाः जल्पन्ति' इति ५१७ सूर्यादिति । सूर्यात् सूर्यमुपास्य, ल्यब्लोपे पञ्चमी । आरोग्यं इच्छेत् , हुतवहादग्नेः कमप्यनिर्वचनीयं संपदः धनादिसंपत्तेः उल्लासं विस्तारं इच्छेतू , ईशानात् भगवतः शंकरात् ज्ञानं परमात्मविषयं इच्छेत् , अनवधिनिःसीमः विभव ऐश्वर्य यस्मिन् तथाभूतं अनश्वरसुखादिसंपद्युक्तमित्यर्थः । मोक्षं मुक्तिं मुकुन्दात् भगवतः श्रीविष्णोः इच्छेत् , इत्याद्याः सत्यवादिनो यथार्थवक्तारः ये आदिमाः प्रथमाः मुनयः व्यास-वाल्मीकादयस्तेषां भणितीर्वाक्यानि “आरोग्यं भास्करादिच्छेत्" इत्याद्याः आकलय्य ज्ञावापि शैवाः भवस्य संसारस्य हतये नाशार्थ विष्णोः सेवा परिचयाँ त्यजन्तः सन्तः, ते भवं शिवमेव भावयन्ते पूजयन्ति । अत्रार्थे शैवानामेवमभिप्रायः-"तरति शोकमात्मवित् , ज्ञात्वा देवं मृत्युमुखात् प्रमुच्यते, ज्ञानादेव तु कैवल्यम्" इत्यादिवहुलश्रुति-स्मृतिप्रामाण्याज्ज्ञानेनैव मोक्षः, तज्ज्ञानं च "ईशानः सर्वविद्यानामीश्वरः" इत्यादिश्रुतिभ्यः शिवादेव प्राप्नोति ततश्च युक्तमेव तद्भजनमिति ॥ ५१८॥ तदिति । तमसः अज्ञानस्य पारे समाप्तौ सत्यां अज्ञानविनाशे सतीत्यर्थः । पश्यता अवलोकयता सूरीणां ज्ञानिनां गणेन समुदायेन सनक-नारदादिज्ञानिमुनिसमुदायेनेत्यर्थः । सान्द्रं निबिडं व्याप्तमिति यावत् । निर्मलः जन्म-मरणादिविकाररहितश्चासौ महानन्दः अतिशयानन्दश्च स आत्मा स्वरूपं यस्य सः तथाभूतं अत एव शाश्वतं विनाशरहितं अत एव च परमं सर्वोत्तमं, हिः समुच्चायकः । तत् १ 'सूरातू. २ 'सत्यवाचो हितमुनि', - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331