Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 271
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ वेदान्ति विश्वगुणादर्शचम्पू:- अथ वेदान्तिवर्णनम् ४३. कृ०-सत्यं पुनर्मामराणामप्येषां न रोचते नमस्क्रिया । यदेतेषु मिथ्यावादिन एव बहुलमुपलभ्यन्ते । अमी खलु प्रामाणिका) दूरीकृत्याप्रामाणिकमर्थमुररीकुर्वन्ति ॥ २१२ ॥ तथाहिप्रत्यक्षगोचरमशेषमपि प्रपञ्चं मिथ्येति मायिन इमे प्रतिपादयन्ति ।। सर्वप्रमाणसरणीमतिवर्तमानं ब्रह्माश्रयन्ति च परं बत निर्विशेषम् ५०८ सत्यमिति । सत्यं 'क्रियासार्थित-' इत्यादिनो तथ्यमेव, पुनः किंतु एषां मह्यमराणामपि ब्राह्मणानामपि, अपिशब्दात्तत्वतस्तेषां पूज्यत्वं सूचितम् । नमस्किया नमस्करणं, मह्यमिति शेषः । न रोचते । यद्यस्मादेतेषु ब्राह्मणेषु मध्ये मिथ्यावादिनः प्रपञ्चमिथ्याभाषिणः, असत्यभाषणशीला एव च बहुलं उपलभ्यन्ते दृश्यन्ते । अमी ब्राह्मणाः खलु प्रमाणेन चक्षुरादीन्द्रियसंनिकर्षेण प्रत्यक्षतया सिद्धः प्रामाणिकः, शास्त्रतः सिद्धश्च तमर्थ शरीरादेः सत्यत्वादिकं कर्तव्यादिकं च दूरीकृत्य परित्यज्य, अप्रामाणिकं “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, न चक्षुषा गृह्यते नापि वाचा, नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुते. न" इत्यादिश्रुतिभिः सर्वप्रमाणागोचरं, स्वकपोलकल्पितं च अर्थ उररीकुर्वन्ति अङ्गीकुर्वन्ति ॥ २१२ ॥ उक्तमेवार्थ विशदीकरोति-प्रत्यक्षगोचरमिति । प्रत्यक्षस्य चक्षुरादीन्द्रियजातस्य गोचरं विषयीभूतमपि, सौराकीटपतङ्गमा च देवर्षिभ्यः साक्षात्क्रियमाणतया दुःशकापह्नवमपीत्यहोसाहसमिति भावः । अशेषं सकलं प्रपञ्चं चराचरात्मक जगत् इमे पुरोदृश्यमाना मायाया। अविद्यायाः संबन्धो येषां ते मायिनः, संबन्धे मतुप् । स च प्रतिपाद्यप्रतिपादकभावः । मायावादिन इत्यर्थः । पक्षे मायिनः कपटिनः मिथ्येति स्वेन रूपेण निस्तत्त्व इति प्रतिपादयन्ति । “सर्व विकारजातं माया• मात्रं" "द्वितीयकारणाभावादनुत्पन्नमिदं जगत्" "इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं जगत्" इत्यादिवचनैरिति भावः । पक्षे मिथ्येति परप्रतारणाय वास्तवरूपवि. पर्यासेन यथा-हीरकादिकं काचत्वेन प्रतिपादयन्ति महत्यारभट्या समर्थयन्ति । किं तर्हि ते परमार्थसन्न किमप्यङ्गीकुर्वन्तीत्याकालायामाह-सर्वप्रमाणेति । स. वाणि च तानि प्रमाणानि प्रत्यक्षागमादीनि तत्र प्रत्यक्षाणि चक्षुरादीन्द्रियाणि आ• गमादीनि तर्कमीमांसादीनि च तेषां सरणी पद्धति अतिक्रम्य वर्तमानं "न १ मतं'. २ 'श्रवन्ति परमं'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331