Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 273
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७०० विश्वगुणादर्शचम्पू:- [वेदान्तिभोकेविलममी परस्मै ब्रह्मणे द्रुह्यन्ति, किंतु तत्प्रमाणेभ्यः श्रुतिभ्योऽपि २१४ यतःमिथ्यार्थावेदकत्वात् श्रुतिषु कुमतिभिः कर्मकाण्डे निरस्त प्रामाण्ये ब्रह्मकाण्डैः सह गुणवचनैः शेषितो ब्रह्मशब्दः । मिथ्यास्मिन्विभक्तिः प्रकृतिरपि परं ब्रह्म नैवाभिधत्ते वाच्यत्वानाश्रयत्वात्कथमुपनिषदां मानतां जानतां ते॥५१०॥ परमेते श्रुतिभ्यो न द्रुह्यन्ति, किंतु शारीरकायापि ॥ २१५ ॥ नेति । तस्मिन् परब्रह्मणि विषये यानि प्रमाणानि यथार्थतद्भावप्रतिपादकानि तेभ्यः, श्रुतिभ्यः उपनिषद्भ्योऽपि द्रुह्यन्ति ॥ २१४ ॥ द्रोहप्रकारमेवाह-मिथ्येति । श्रुतिषु कर्म-ब्रह्मपरेषु सर्वेषु वेदवाक्येषु मध्ये मिथ्यार्थानां असत्यार्थानां "ज्योतिष्टोमेन वर्गकामो यजेत" इत्यादिश्रु. तिभिः स्वर्गप्राप्त्यादिरूपाणां आवेदकत्वाद्बोधकत्वाद्धेतोः कर्मकाण्डे मन्त्रब्राह्मणात्मके ब्रह्मकाण्डैः अपवादरूपोपनिषद्वाक्यः "तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इत्यादिभिः निरस्तं निवारितं प्रामाण्यं यस्य तथाभूते सति एभिः कुमतिभिः कुत्सितबुद्धिभिः, 'कुं कुत्सितं असत्यं प्रपञ्चं अतन्ति जानन्तीति तैः कुमतिभिः प्रपञ्चमिथ्यात्वज्ञातृभिरित्यर्थः । इति भावदर्पणव्याख्यायामर्थान्तरं दृश्यते । तत्पक्षे । 'अत सातत्यगमने' इत्यस्माद्धातोर्गत्यर्थात् औणादिक इप्रत्यय इत्यवगन्तव्यम् । गत्यर्थस्य ज्ञानार्थकत्वं च । गुणवचनैः सगुणेश्वरप्रतिपादकैः कर्मकाण्डवाक्यैः सह ब्रह्म इत्येक एव शब्दः शेषितः एकार्थीकृतः, तत्र प्रमाणत्वेन स्वीकृत इत्यर्थः । उपनिषदां कर्मकाण्डापवादरूपत्वादेतयुक्तमिति भावः। किंच अस्मिन् ब्रह्मशब्दे विभक्तिः सु औ इत्यादिरूपा मिथ्यार्थी निरर्थका । ब्रह्मणः सदैकरूपत्वात् द्वित्वबहुत्वाभावादित्यर्थः । ततश्च प्रकृतिः केवलं विभक्तिरहितं रूपं वाच्यत्वस्य शब्दप्रतिपाद्यत्वस्य अनाश्रयत्वादनधिकरणत्वाद्धेतोः परं ब्रह्म नैवाभिधत्ते नैव बोधयति । ततः ते अद्वैतवादिनः उपनिषदां मानतां प्रामाण्यं कथं जानतां विदन्तु ? नैव ज्ञातुं शक्नुवन्तीत्यर्थः ॥ ५१०॥ परमिति । किंच परं अन्यदपि, कथयामीति शेषः । एते केवलं श्रुतिभ्यो वेदेभ्य एव द्रुह्यन्तीत्येतावदेव न, किंतु शरीरमधिकृत्य कृतं शारीरकं श्रीमन्यासनिर्मितं ब्रह्मसूत्ररूपं शास्त्रं तस्मै अपि द्रुह्यन्ति । उपनिषत्प्रतिपादितार्थमेव स्पष्टीकर्तुं तत्रभवता व्यासेन ब्रह्मसूत्ररूपं शास्त्रं व्यरचि, तत्रापि द्रोहाचरणमन्याय्यमित्यपि. शब्दाबोध्यम् ॥ २१५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331