Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 257
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ विश्वगुणादर्शचम्पू:- . [चंपराजगो०अग्रे न्यस्तमिदं मुदैव भगवानालोकनैः स्वीकरो- . .. त्यंहःसंहरणास्थया च तदिदं प्राश्नन्ति भाग्योत्तराः ॥ ४७१॥ पश्य तावत् स्वानुभवसिद्धौ प्रकर्ष-निको भगवदायतन-तदितरस्थलपरिकल्पितयोरन्नयोः ॥ २०२ ॥ उपस्कारैः स्फारैरुपचितरसामोदभरम प्यवैत्यन्नं गेहे कृतमनतिभोग्यं बुधजनः ॥ अभूयःसंस्कारिण्यपि हविषि देवालयभवे त्वनल्पं भोग्यत्वं पुनरघहरत्वं च मनुते ॥ ४७२ ॥ केचित् सदादयः चक्रधरस्य विष्णोः अपराधात् चकिताः यदि तावत् अशुचितया. उन्नादिकं पाचितं तर्हि भगवतोऽपराधः स्यादिति भीताः, परे अन्ये ये तावदीश्वरा. द्रयं न मन्यन्ते ते इत्यर्थः । क्ष्मापालात् राज्ञः सकाशात् भीताः यदि तावदनवहितत्वेनाशुचित्वेन च पाकनिष्पत्तिः कदाचिद्राज्ञा राजपुरुषेण वा केनचिदृष्टा स्यातदा वयं दण्ड्या भवेमेति शङ्किताः सन्तः, अत एव अवहिताः पाककर्मणि दत्तचित्ताः, तत एव च शुद्धाः स्नानादिना पवित्राश्च सन्तः कतिचिदौदनिकाः श्रद्धातः आस्तिक्यबुद्ध्या दिव्यं सम्यग्विहितत्वेन तेजोयुक्तं हविरन्नादिकं पचन्ति । ततश्च इदं सावधानतया पवित्रतया च निष्पादितमन्नं अग्रे न्यस्तं नैवेद्यार्थ पुरःस्थापितं सत् भगवान् मुदैव आनन्देनैव आलोकनैरवलोकनैः स्वीकरोति । तच्चेदं भगवदी. क्षणेनात्यन्तपरिशुद्धमन्नादिकं अंहसां पापानां संहरणास्थया विनाशाशया भाग्योत्तराः अतिशयभाग्यवन्तो जनाः प्राश्नन्ति भक्षयन्ति ॥ ४७१॥ नन्वनुभवमन्तरेण व्यर्थमेवेदं सर्व त्वद्भाषणमिति चेदाह-पश्येति । भगवतः आयतने स्थाने तदितरस्मिंश्च स्थले कस्यचिद्गृहे परिकल्पितयोः पाचितयोरन्नयोः खानुभवेनात्मीयानुभवेनैव नतु मत्सदृशान्येन केनचित्कथितमात्रेण, सिद्धौ प्रकर्षः देवालयनिष्पादितस्योत्कर्षः निकर्षः तदितरस्थलनिर्मितस्य चापकर्षश्च ती पश्य तावत् ॥ २०२॥ उपस्कारैरिति । स्फारैर्बहुलैः उपस्कारैः वेसवारादिव्यञ्जनैः उपचितः वृद्धः रसस्य तिक्ताम्लादेः आमोदस्य सुगन्धस्य च भरः अतिशयः यस्मिन् तथाविधमप्यन्नं गेहे गृहे कृतं पक्वं चेत्, तत् बुधजनः अनतिभोग्य अतीव भोजनानह अ. वैति जानाति । किंच देवालयभवे भगवन्मन्दिरपक्के न विद्यन्ते भूयांसो बहुलाः संस्कारा व्यजनादयो यस्मिन् तथाभूतेऽपि, किं पुनर्बहुतरसंस्कारवति हविषि अन्ने अनल्पं बहुतरं भोग्यत्वं भोजनयोग्यत्वं, न त्वेतावदेव, पुनः अघहरत्वं पापनिवर्त. कत्वं चापि मनुते । अयं हि केवलमीश्वरस्थानप्रभाव एवेति भावः ॥ ४७२ ॥ १ 'संहरणाशया'. २ प्रकर्षापकाँ'. ३ 'कृतमयमभोग्यं'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331